पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ लिप्त्वै भागमानाभेः प्रक्षाल्याचम्य वाग्यतः । द्वितीयेनास्त्रयुक्तेन दीप्तेनाङ्गानि लेपयेत् ॥ १८ ॥ प्राणानायम्य सलिले निमज्ज्यास्त्रमनुस्मरन् । कालानलप्रतीकाशं तथोपतटमम्भसि ॥ १९ ॥ उपविश्य समाचान्तः कृत्वास्नाद् दिग्विबन्धनम् | शिष्टं तु पूर्वमृद्भागमादायानाभि वारिणि ।। २० ।। स्थित्वा वामकरस्थं तत् त्रिधा तु विभजेत् पुनः । दक्षिणं भागमस्त्रेण प्राक् स्वमूलेन तूत्तरम् ॥ २१ ॥ अङ्गमन्त्रैः समालभ्य गृहीत्वास्त्रेण दक्षिणम् । हुम्फडन्तेन रक्षायै दशदिक्षु क्षिपेत् सुधीः ॥ २२ ॥ मूलालब्धेन पूर्वेण जले दक्षिणपाणिना । निक्षिप्य भ्रामयेद् वारि शिवतीर्थमनुस्मरन् ॥ २३ ॥ अङ्गालब्धार्कदीप्तेन शिष्टभागेन विग्रहम् । सर्वमालिप्य तत्तीर्थं स्वनाम्ना वाह्य पूजयेत् ॥ २४ ॥ गन्धपुष्पैर्यथालाभं मनसा वा समाहितः । मुख्य नद्यब्धितीर्थेषु नान्यतीर्थानि कीर्तयेत् ॥ २५ ॥ कीर्तनान्निष्फल तत् स्यात् क्रुध्येच्चातो न कीर्तयेत् । केवलाम्भस्सु गङ्गादितीर्थानां कीर्तनं स्मृतम् ॥ २६ ॥ `तत्तत्फलप्रदं तस्मात् तत्तचीर्थानि कीर्तयेत् । [क्रियापदः ततः प्राणान् समायम्य त्रिर्निमज्ज्य समाहितः ॥ २७ ॥ निमग्न एव साङ्गं स्वमूलं शक्त्या जपेदुद्धृदा । एकाशीतिपदं मन्त्रं जपेच्छक्तोऽघमर्षणे ॥ २८ ॥ द्विजश्चेद् वैदिकं सूक्तमाघमर्षाणिकं जपेत् । हिरण्यशृङ्गमित्यादि यथोक्तं पूर्वपद्धतौ ॥ २९ ॥ यथा जलौघे लवणस्य सञ्चयः प्रयाति सद्यो विलयं महानपि । तथा महानप्यघमर्षर्णेऽहसां चयो विनाशं व्रजतीति निश्चितम् ॥ ३० ॥ ततः स्थितो वारिणि वामदक्षिणौ करौ शशाङ्कार्क शिवद्वयात्मकौ । विभाव्य मूलेन च कुम्भमुद्रया शिरस्यथाङ्गैरपि चाभिषेचयेत ॥ ३१ ॥