पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशान शिवगुरुदेवपद्धतौ षड्विंशतिर्यो भुवनाध्वभेदो विद्यासविद्येश्वरतत्त्वयुक्तः । तस्यापि पश्वादिपुरोदितानां मीमांसनं चात्र विचारमाहुः ॥ १७ ॥ विचार पदार्थाधिकारः । क्रियेति च स्यादिह. कृत्यचक्रं दीक्षादिसंस्कारविशेषयुक्त्या ! सनित्यनैमित्तिककाम्यकर्म चर्याह्वयं तद्युगलं पदार्थः ॥ ३८ ॥ षष्ठः प्रसिद्धः किरणादिकेषु शैवेष्वथैषां तु पदार्थकानाम् | व्युत्पादकं यद् भवतीह तन्त्रं तत्रीति धातोरिह धारणार्थात् ॥ २९ ॥ क्रियाचर्यापदार्थाधिकारः । दीक्षया शिवत्वव्याप्तिव्यावर्णनप्रसङ्गाच्च पटलस्य प्रथम लोके प्रवदा- म्यथोत्तरमित्युक्तत्वाच्च प्रतिष्ठादिकं क्रियाचक्रमपि क्रियाचर्यापदार्थेऽन्तत वोपरिष्टात् प्रदर्श्यते ॥ निगदितमिति शैवतन्त्रबीजं त्विह पशुपाशपतीश्वरीविचारैः । फलति यदिह चापि सत्क्रियोप्तं सुरतरुषण्डमिवेष्टकामदोहम् ॥ ४० ॥ इति श्रीमदीशान शिवगुरुदेवपद्धतौ सिद्धान्तसार उपरिभागे क्रियापादे षट्पदार्थविचारी नाम द्वितीयः पटलः । अथ तृतीयः पटलः । अथोच्यते नैत्यकमत्र कर्म सामान्यतः सिद्धिकरं यथावत् । समस्तवर्णाश्रमलिङ्गभाजामावश्यकं यत् करणीयमेकम् ॥ १ ॥ प्रभावतीष्वेव हि तारकासुं कालं तु सूर्योदयदर्शनात् प्राक् । वदन्ति सन्ध्यां मुनयः प्रभातां तस्यां विनिद्रः शयनं च जद्यात् ॥ स्मरन् हृदम्भोरुहकोटरस्थं शैवं परं ज्योतिरथात्मसंस्थम् । व्रजेत् समुत्थाय दिशं विशुद्धमम्भः प्रभूतं सुलभं च यस्याम् ॥ ३ ॥ विदूरतो मार्गजलाशया देश्छन्ने तृणैर्भूमितले निर्वाती । उदङ्मुखो याम्यमुखोऽह्नि रात्रौ त्यक्त्वा मलं चाथ गृहीतशिश्नः "क्ष्मा क. पा०ः