पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

26 ईशानशिवगुरुदेवपद्धतौ तथाच मतङ्गे "तत्सामर्थ्यादनन्तस्य तत्तेजः पारमेश्वरम् । भेदैः षोडशधा भिन्नमिच्छाज्ञानक्रियात्मकम् ॥” इति संक्षोभणी स्याज्जननी ततश्च स्यात् क्रोधयित्री च तथैव गोप्त्री । नेत्री च योक्रीत्युदिता परस्तात् त्राणाह्वया वामनियामिका च ॥ रौद्रीत्यतः प्लाविकया ततोऽपि श्रद्धा परस्तादथ भासनी स्यात् । ज्वालिन्यथाह्लादनिकेति गीता स्तम्भिन्यपि स्याद् विकिरा च शक्तिः ॥ क्रमादमी षोडश शक्तिभेदाः प्रोक्ताः शिवो याभिरुदीर्णशक्तिः । स निष्कलः सन् सकलोपचारात् क्रीडत्यजः कर्तृतया स्म लोकैः ॥ "प्रबोध्यते महातेजा ज्ञानशक्ति कृतास्पदः । स्थानभेदेन कर्तृत्वं यस्मात् तस्योदितं सदा ॥" इति पारमेश्वरे । पत्युः शरीरं भुवनक्रियायां भोगाश्च सिध्यन्ति यथेश्वरेऽपि । स्थितास्तु तत्त्वाध्वनि शक्तयस्तास्तथा स्वनामानुगुणक्रियायाः ॥ तथाच रामकण्ठः "शक्ति पदार्थोऽत्रेश्वरतत्त्वेन वक्ष्यमाणभुवनचतुष्टययुक्त- चतुर्थोऽभिधीयते । तदधिष्ठानं विना पुंसां ज्ञानानुत्पादनात् " इति । मतङ्गे च "स्वभावस्याप्युत क्रीडा स च क्षोभ इति स्मृतः । क्षोमेणातिजवात् कर्तुः शरीरमभवत् पुरा ॥ येनावतीर्य सम्भोगांस्तत्त्वादीश्वरसंज्ञितात् । व्यापारास्थितयेऽनन्तः कृतवान् भुवनं महत् ॥ एवं क्षोभयिता देवः क्षोभ्यश्च पशवः स्मृताः ॥' इत्येतस्मात् " क्षोभण्या क्षोभयल्लोकाञ् जनन्या भोगसृष्टिकृत् । रोघयित्र्या निरुध्याणून् स्वे स्वे कर्मफले न्यसेत् ॥ गोप्त्र्या जगद्: गोपयति नेत्र्या विश्व नयत्यतौ । रुक् पाशनिचयो भोक्तुर्येयं द्रावयितुं क्षमा ॥" इति मतङ्गे । १. 'नामांत' क. पाठ:०