पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शक्तिविचाराधिकारः ] उत्तरार्धे द्वितीयः पटलः । २५ अत्र रामकण्ठः " पतिस्तु भगवाञ्छिवसदाशिवादितस्यभेदेन भुवनपञ्चकभेदेन च वक्ष्यमाणः परमेश्वरः" इति । पत्र मत इति । अतीत्य तत्त्वानि विराजमानो व्योमाखिलं व्याप्य यतो ह्यरूपः । व्योमप्रकाशो भगवानमेयो ह्यनादिमध्यान्तमहेश्वरोऽसौ ॥ १७ ॥ क्रीडन्स बिन्दोरवतीर्य शक्त्या स्वयोपगूढः परमप्रभावः । सर्वाध्वकार्यं निखिलं सिसृक्षुः स्वशक्तिजालावरणो बभूव ॥ १८ ॥ स स समन्त्रनाथोऽप्युपचारयोगात् स्वमन्त्रपञ्चात्मतनुं व्यधत्त । मनन्तंसूक्ष्मादिभिरष्टसंख्यैः समं तु विश्वेश्वरशक्तिभेदैः ॥ १९॥ ईशानमूर्धौ पुरुषाख्यवक्रामघोरहृद् गुह्यकवामदेवाम् । सधाख्यमूर्ति त्वथ हारिणीं च तथा जनित्रीं च निरोधयित्रीम् ॥ "तनुर्यस्योपचारेण पञ्चमन्त्रमयी शिवा । ईशानमूर्धा पुंवको ह्यघोरहृदयः प्रभुः ॥ उच्यते वामगुह्योक्त्या सद्यो मूर्तिस्तथासने । हारिणी जननी चैव रोधयित्री च शक्तयः || ” अनन्तोऽनन्तवीर्यात्मा सूक्ष्मश्चेत्यादिनानि च । विद्येश्वराः प्रसिद्धाः । समासादेवंविधः पतिः सदाशिवरूपी वा निर्दिष्टः । पतिविचाराधिकारः । शिवास्य शक्तिः परमार्थसूक्ष्मा चितिः स्वतन्त्राखिलसिद्धिहेतुः । प्रमेव दीपात् तु शिवादभिन्ना जगद्भवोन्मीलनबोधदक्षा ॥ २१ ॥ तथाच मतङ्गे. इति । Comp " पत्युः शक्तिः परा सूक्ष्मा जगदुन्मलिनक्षमा । तया प्रभुः प्रबुद्धात्मा स्वतन्त्रश्च सदाशिवः ॥ प्रबोध्यते महातेजा ज्ञानशक्ति कृतास्पदः ॥" तत्त्वेन सा चेश्वरसंज्ञितेन युक्ता चतुर्भिर्भुवनैः समग्रा । इच्छाक्रियाज्ञानमयी त्रिभेदा भिन्ना पुनः पोडशधा च शक्तिः ॥ १. 'क्रियास' ख. पाठः. E