एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
उपपीठाविधिः ] 1. 'उत्तरार्धे त्रिंशः पटलः । एतेषामात्तविस्ताराद् द्विगुणः स्यादिहोच्छ्रयः । उच्छ्रये चाष्टधा भक्ते स्यादधिष्ठानमंशतः ॥ ६० ॥
स्तम्भोत्सेधस्तु भागाभ्यां प्रस्तरश्चैकभागिकः । कण्ठश्चांशेन शिखरं द्वाभ्यां स्थूपिस्तथांशतः ॥ ६१ ॥ एवं धामैकतलकं द्वितलं च समूहयेत् ।
तत्राधिष्ठानतुङ्गस्य त्रिधा भक्तस्य भांगशः ॥ ६२ ॥
भागेन जगतीं कुर्यादंशन कुमुदं तथा ।
शिष्टभागे तु वेदांशे कुर्यादंशेन पट्टिकाम् || ६३ ॥ स्यादंशेनान्तरं शेषावंशौ प्रतिमुखं भवेत् ।
अल्पक्षुद्रविमानानामधिष्ठानमिदं भवेत् ॥ ६४ ॥ मुख्यजातीतराणां च जात्यानां च यथोचितम् । विमानानामधिष्ठानं सोपपीठं निगद्यते ॥ ६५ ॥ मसूरकं चाधिष्ठानं वस्त्वाधारं च कुट्टिमम् ।
तलं चाद्याङ्गमिति च शब्दाः पर्यायवाचकाः || ६६ ॥
प्रासादस्तु निजैरङ्गैरधितिष्ठति यं सदा ।
दृढं शिलादिघटितं तदधिष्ठानसंज्ञितम् ॥ ६७ ॥ पूर्वमुक्तप्रकारेण स्थले दृढतरं चिते । गर्भन्यासं च कृत्वादावुपपीठं तु योजयेत् || ६८ ॥
अधोऽधिष्ठानकानां स्यादुपपीठं भवेद्यदि ।
उन्नत्यर्थं च शोभार्थं रक्षार्थं च विशेषतः ॥ ६९ ॥
वेदीभद्रं प्रातिभद्रं सुभद्रं च त्रिधा मतम् ।
अर्कांशे तूपपीठोच्चैरुपानद्यंशमंशतः ॥ ७० ॥ पद्मं क्षेपणमर्धांशाद् ग्रीवा पञ्चांशतो भवेत् ।
अर्धेन कम्पस्तस्योर्ध्वमब्जं चांशेन वाजनम् ॥ ७१ ॥
'चे उपा' क. ख. पाठः, ३००