पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२०५ पत्र मयः इशानशिवगुरुदेवपद्धतौ शिष्टांशेनोर्ध्वकम्पश्चेत्यष्टाङ्गमुपपीठकम् । पडङ्गं वा विधातव्यमूर्ध्वाधः पङ्कजं विना ॥ ७२ ॥

वेदभद्रमिदं प्रोक्तं सर्वहर्म्योचितं द्विधा । 

अश्विदृक्च्छिवभागैस्तु भानुभागांशकांशकैः ॥ ७३ ॥ रामांशांशकभागैस्तु द्वाभ्यामंशेन योजयेत् ।

जन्मनो वाजनान्तं तत्तुङ्गे त्रिनवभागिके ॥ ७४ ॥

पादुकं पङ्कजं कम्पः कण्ठमुत्तरमम्बुजम् ।

कपोतालिङ्गकान्तादि प्रतिवाजनमुच्यते ॥ ७५ ॥ 

प्रातिभद्रायं त्वेतत् सर्वालङ्कारसंयुतम् । प्रकृत्यंशे तदुत्सेधे भागाभ्यां जन्म चाम्बुजम् ॥ ७६ ॥

अर्धेन गलमर्धेन पद्मं द्व्यशं तु वाजनम् ।

अर्धेनाब्जं तथा कम्पमष्टौं कण्ठोंंऽशमुत्तरम् ॥ ७७ ॥

अर्धेनाब्जं तु गोपानं त्रिभिः स्यात् कम्पमूर्ध्वतः । 

सुभद्रकमिदं नाम्ना कथितं ह्युपपीठकम् ॥ ७८ ॥

सिंहेभमकरव्यालभृतपत्राद्यलङ्कृतम् । 

प्रतिवक्रझषास्यं स्याद् बालेनारूढमस्तकम् ॥ ७९ ॥ "आत्ताधिष्ठान तुङ्गाद् द्विगुणमथ - समं सार्धमर्धत्रिपादं [क्रियापादः पञ्चांशं द्व्द्यंशकं वानलसममिति त्रिकमात्रोपपीठम् | सप्रत्यङ्गं समञ्चं तदपि च महता वाजने नोपयुक्तं सर्वेषां चापि धाम्नां दृढमुचितमधो योजयेत् तूपपीठम् ॥” इति श्रीमदाशार्नाशिव गुरुदेवपद्धती सिद्धान्तसारे उपरिभागे क्रियापदे जात्यादिविमानविभागोपपीठ विधि- पटत्रिंशः ॥ शुभं भूयात् । ५. 'नमा' ख. पाटः 'जात्यादिविभागविमानापपाठ: ' ग. पाट:.