पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

उपपीठविधिः ] १. उत्तरार्धे त्रिंशः पटलः । विस्तारद्विगुणायामो युग्मायुग्मे च कोष्ठके ।

पञ्जरालिन्द के तुल्ये भागार्घार्धारिको भवेत् ॥ ३४ ॥

पञ्च त्र्यंशमलिन्दं वा गृहपिण्ड्यादि शेषतः ।

तलविभागाधिकारः ।

कायश्चाप्यनुकायश्च प्रासादाङ्गं द्विधा स्मृतम् ॥ ३५ ॥

अधिष्ठानं तथा स्तम्भो भित्तिः कुम्भश्च मण्डिकाः ।
पोतिका स्याद् भारतुला . जयन्तय इति क्रमात् ॥ ३६ ॥
अनुमार्गाश्च कायः स्यादनुकायोऽथ कथ्यते ।
उत्तरं वाजनं श्रेणी बलीकं कर्णपत्रिका || ३७ ॥
सन्धिद्वारकपाटानि योगः प्रच्छादनानि च । 

कुम्भवली तोरणानि मुष्टिबन्धाष्टमङ्गलैः ॥ ३८ ॥

मृणालिका दण्डिका च नीप्रहाराश्च नासिकाः । 

पट्टिका वलभी बन्धवेदिका जालकानि च ॥ ३९ ॥

कर्णकूटास्तथा कूटा नीडकोष्ठादयोऽपि च ।
ऊर्ध्वप्रच्छादविन्यास सुधालोष्टेष्टकादयः ॥ ४० ॥
अनुकायाभिधानानि सामान्यानि भवन्ति हि ।
देशोचितानि क्षुद्राल्पविमानानि भवन्ति हि ॥ ४१ ॥ 

नागरं द्राविलं चैव वेसरं च त्रिधा मतम् ।

चतुरश्रं वायताश्रं नागरं तत् प्रचक्षते ।। ४२ ।।

षडश्रं वाथवाष्टाश्रं समं वा दीर्घमेव वा । द्राविलं सौधमुद्दिष्टं वेदाश्रं वा गलादधः || ४३ || कण्ठादुपरि चाष्टाश्रं तदपि द्राविलं स्मृतम् ।

वृत्तं वृत्तायतं वापि द्वयश्रं वृत्तमथापि वा ॥ ४४ ॥ 

कण्ठादधस्ताद् वेदाश्रं तदूर्ध्वं वर्तुलं च यत् । विमानं वेसराख्यं स्यात् त्र्यं तत्रिगुणं स्मृतम् ॥ ४५ ॥ 'प' क. ख. पाठः. ३०३