पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[क्रियापादः ३०२ अत्र 'ईशानशिवगुरुदेवपद्धतौ स्वव्यासद्विगुणादुच्चमष्टांशं वाधिकं भवेत् ।

अथवाल्पकनिष्ठानां व्यासे सप्तविभागके ॥ २२ ॥
षडङ्गाधिकमुच्चं स्यान्मध्यानां पञ्च चाधिकम् । 

त्र्यंशाधिकं चोत्तमानां प्रासादानामिहोन्नतिः ॥ २३ ॥ यथाधिकारं प्रासादा देवादीनां समृद्धिदाः । ब्रह्मविष्णुशिवानां चाप्युत्तमं चक्रवर्तिनाम् ॥ २४ ॥ शस्तं द्वादशभौमं स्यान्नान्येषां तद् विधीयते ।

त्रयस्त्रिंशत्सुराणां च यक्षनागेन्द्रवेधसाम् || २५ || 

एकादशतलं शस्तं द्वितलं शशिसूर्ययोः । महाराजाधिराजानां विमानं नवभूमिकम् ॥ २६ ॥ अष्टभौमं तु गन्धर्वसिद्धविद्याधरोचितम् । सप्तभौमं द्विजेन्द्राणां नृपाणां च समृद्धिदम् ॥ २७॥ षड्भौमं मण्डलेन्द्राणां पञ्च स्युर्यौवराजकम् ।

सामन्तानां चतुर्भीमं पुरेशानां च शस्यते ॥ २८ ॥

श्रीमतां वैश्यशूद्राणां सेनेशानां त्रिभौमकम् ।

द्वितलं चैकभौमं च सर्वदेवनरोचितम् ॥ २९ ॥

अत्र यदुक्तं तु द्विजातीनामन्येषां तलसंख्यकम् । तत् सर्वं द्युसदगिप्रं द्विजेन्द्रोक्तं च भृभुजाम् ॥ ३० ॥

वैश्योक्तं चैव शुद्राणां द्विजानां सर्वमेव वा ।

हीनानां नाधिकांक्तं स्यादिति प्राह पराशरः || ३१ ॥

विमानाच्छतहस्तोच्चादधिकं न कली स्मृतम् ।
महावातादिपीडाभिः पयिते यतोऽधिकम् ॥ ३२ ॥
स्वव्यासाद् गर्भगृहमविशेपोदित भवेत् ।
विमानव्यासनन्द्रांशात् कृटशालाविशालता ॥ ३५ ॥

१. 'मादिष्टं' क.. पाठा नि. पाट