पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

तल विभागाधिकारः ] उत्तरार्धे त्रिंशः पटलः ।

तान्यपि त्रितलादीनि भवन्त्यर्कतलान्तकम् ।
जातिविमानाधिकारः ।

अत्यष्टिहस्तादारभ्य आत्रिषष्टिकराततात् ॥ १४ ॥ छन्दानि पञ्चभौमादि भवन्त्यार्कतलादिह ।

द्विद्विहस्तविवृद्धानां कनिष्ठाद्यष्टकत्रयम् ॥ १५ ॥
छन्दविमानाधिकारः ।

त्रयोदशकरव्यासात् पञ्चपञ्चाशदाततेः । द्विहस्तवर्धनात् प्राग्वद् विकल्पान्येकविंशतिः ॥ १६ ॥ विकल्पविमानानि । एकादशकरात् सप्तचत्वारिंशत्कराततेः । द्विहस्तवर्धनात् प्राग्वदूनविंशतिसंख्यया ॥ १७ ॥

चतुर्भीमाद्यार्कभौमादाभासाख्यानि तानि वै । 

आभासविमानानि । युग्मायुग्मकरैः पङ्क्तिनवहस्तादितः क्रमात् ॥ १८ ॥ अष्टसप्तकषट्पञ्चकरैः श्रेष्ठादिकानि तु । चतुस्त्रिद्वितलानि स्युः क्षुद्राख्यानि यथाक्रमम् ॥ १९॥

अथवा त्रिचतुर्हस्तव्यासात् क्षुद्रेषु धामसु ।
एकभौमं द्विभौमं च यथायुक्ति नियोजयेत् ॥ २० ॥
द्विद्विहस्तविवृद्धया तु नीचादीनि समूहयेत् ।

अत्र पितामहः - “पङ्क्तिहस्तैस्ततं नन्दकरव्यासमिहोत्तमम् । ३०१ भवेदेकतलं हस्तैर्मध्यं वस्वृषिसम्मितैः ॥ कनिष्ठमृतुबाणैः स्यादेवमेकतलत्रयम् ।” इति । क्षुद्रविमानाधिकारः । अथवा सर्वजात्यानां विमानानां समासतः ॥ २१॥