पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ त्रिंशः पटल' । अथ द्वादशभौमादि यावत् तु त्रितलं भवेत् । प्रोक्तानां च विमानानामुत्तमादिप्रभेदतः ॥ १ ॥

उत्सेधव्यासमानं तु हस्तैः पृथगिहोच्यते ।
तत्रादित्यतलं श्रेष्ठं शतहस्तोच्छ्रितं भवेत् ॥ २ ॥
हस्तसप्ततिविस्तारं मुख्यं जात्यपि च क्रमात् । 

त्रिषष्टिस्त विस्तारं त्रिनवत्युन्नतं तु यत् ॥ ३ ॥

उत्तमेन तु मानेन स्यादेकादशभूमिकम् ।
तथा चतुरशीत्युच्च सप्तपञ्चाशता ततम् ॥ ४ ॥ 

दशभौमं स्मृतं धाम श्रेष्ठमानेन शोभनम् !

पञ्चसप्ततितुङ्गं यदेकपञ्चाशता ततम् ॥ ५ ॥ 

नवभौमं तु तन्मुख्यं यथायुक्ति नियोजितम् ।

उच्च षडधिकं षट्या चत्वारिंशश्च पञ्च च ॥ ६ ॥ 

कराणां विस्तृतं धाम भवेदष्टतलं शुभम् ।

सप्तपञ्चाशदुत्तुङ्गं त्रिंशता नवकेन च ॥ ७ ॥
कराणां विस्तृतं धाम सप्तभौमं प्रकीर्तितम् | 

त्रयस्त्रिंशत्करव्यासं चत्वारिंशत्करैरपि ॥ ८ ॥

नन्दहस्तैश्व यत्तुङ्गं पञ्चभौमं तु तद्भवेत् ।
त्रिंशता चैकविंशत्या तुङ्गव्यासं चतुस्तलम् ॥ ९ ॥
प्रकृत्या चातिशकर्यां त्रिभौमं तुङ्गविस्तृतम् ।

एवं त्रितलमारभ्य यावद् द्वादशभूमिकम् ॥ १० ॥

उक्तमानात् प्रतितलं ह्रासयेद् द्विकरं क्रमात् ।

मध्यमानि विमानानि भवन्तीह दश क्रमात् ॥ ११ ॥ तद्वन्मध्यविमानानां ह्रासेन द्विकरं पृथक् । कनिष्ठादिविमानानि सिद्धयन्त्या जगतीतलात् ॥ १२ ॥ अथवा युग्महस्तैस्तु विकारकरमादितः । सप्तम्यन्तं विमानानि जात्यादि प्रभवन्ति हि ॥ १३ ॥