पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

विट्शूद्रविमानाधिकारः ] उत्तरार्धे एकोनत्रिंशः पडलः । २९९ अप्तलं चूडहर्म्यं च शिखरं च सभाकृति । सोपानमन्तर्लीनं स्यादष्टाविंशतिनासयः ॥ २०९ ॥

कूटादिभिः पुरोक्ताङ्गैर्युक्तं कुक्कुटपुच्छकम् ।

कुक्कुटपुच्छकम् । उत्पलस्याप्यधिष्ठानं व्यासार्धेनायताश्रकम् ॥ २१० ॥

तत्पादांशाद् गर्भगृहं शेषेण गृहपिण्डिका ।

स्तम्भाः स्युर्विवृतास्तस्य शिखरं चाष्टनासिकम् ॥ २११ ॥

कपोते नासयो द्वयष्टौ प्राग्वेदाश्रसभा भवेत् ।

नृत्तरङ्गं च मध्ये स्याच्छेषेणाम्बुतलादिकम् ॥ २१२ ॥

कूटाद्यैर्वेदिकाद्यज्ञैर्युक्तं स्यादुत्पलाह्वयम् ।

उत्पलम् ! अधिष्ठानं त्वायताश्रं मुण्डप्रासादकस्य तु ॥ २३ ॥

व्यासत्रिभागान्नालीकं तदर्धाद् गृहपिण्डिका ।
पुरस्ताच्चतुरश्रं स्यान्मण्डपं गर्भसम्मितम् ॥ २१४ ॥
शिखरं कोष्ठकं नास्यो द्वादशैव समन्ततः ।
शेषं कपोतशाला स्याच्चूडहर्म्यादिभिर्युतम् ॥ २१५ ॥
एकद्वित्रितलं नाम मरुत्पथसमन्वितम् ।

मुण्डप्रासादसंज्ञं तु भवनं वैश्यशूद्रयोः ॥ २१६ ॥ मुण्डप्रासादम् । एवं तु जांतीतरसंज्ञितानां जात्याह्वयानामपि चालयानाम् ।

देवोचितानां च नरोचितानां प्रोक्तो ह्यलङ्कारविधिः समासात् ॥ २१७॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे जातीतरजात्यलङ्कारविधिपटल एकोनत्रिंशः ।