पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२९८ ईशान शिवगुरुदेवपद्धतौ अधिष्ठानं चायताश्रं तुरङ्गवदनस्य तु । व्यासत्र्यंशाद् गर्भगृहं तदर्घार्घारिका भवेत् ॥ १९९ ॥ अतलं खण्डहर्म्य च स्यातां शेषविभागतः ।

दिक्षु गर्भसभा चान्तः कर्णकूटादिमध्यतः ॥ २०० ॥ 

कोष्ठानि स्युश्च शिखरं सभाकारं तु तत्पुरः । अश्वाननसभाकारं पुरस्ताद् वेदनासिकम् || २०१ ॥

सोपानमन्तर्लीनं स्यात् प्राग्वदङ्गानि योजयेत् ।

तुरङ्गवदनम् । [क्रियापाद- अधिष्ठानादिकं प्राग्वद् गणिकापिण्डिकस्य तु ॥ २०२ ॥ गर्भार्थं गृहपिण्डिः स्याच्छेषं तोयस्थलादिकम् । । मध्ये चतुर्दिशं गर्भसभाः स्युर्गर्भमानतः ॥ २०३ ॥ बाह्ये कूटं कोष्ठकं च स्वेष्टभद्रसभान्वितम् । अन्तर्लीनं हि सोपानं चतस्रः पृथुनासिकाः ॥ २०४॥

मण्डपं प्राग्गर्भमितं शिखरं कोष्ठका कृति ।

गणिकापिण्डिकम् । दीर्घपृष्टमधिष्ठानं श्येनच्छन्दस्य तस्य तु ॥ २०५ ॥ व्यासवेदांशतो गर्भं कुर्याश्चार्थेन पिण्डिकाम् । शेषेणाप्तलकं खण्डहर्म्ये च परितो भवेत् ॥ २०६ ॥

श्येनाकारे तथा नास्यौ कुर्यात् तु शिखरामतः ।
शिखरे नासयोऽल्पाः स्युरष्टाविंशतिसंख्यया ॥ २०७ ॥ 

श्येनच्छन्दम् । प्राग्वत् कुक्कुटपुच्छस्याप्यधिष्ठानं तु तत्ततेः ।

तृतीयांशाद् गर्भगृहं तदर्धाद् गृहपिण्डिका ॥ २०८ ॥

१. 'ण्ड' ख. पाठः. २. 'कम्' ग. पाठः.