पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनत्रिंशः पटलः । खण्डहर्म्यादिभिर्युक्तं नैकस्तम्भैरलङ्कृतम् । पिण्ड्यां तिलकसंयुक्ताश्चतुर्विंशतिनासिकाः ॥ १८८ ॥ कायानुकायभूषाढ्यं रतिवर्धनकं भवेत् । रतिवर्धनम् । क्षत्रिय विमानानि चतुर्विंशतिः । स्वव्यासपाददीर्घाश्रं विशालायतकुट्टिमम् ॥ १८९ ॥ व्यासाष्टांशद्विभागेन गर्भगेहं तदर्धतः । अर्घारिकं भवेद् ब्रह्मद्वारशोभाध्वजादिभिः ॥ १९० ॥ शिखरं दीर्घवृत्तं स्यात् पुरस्तान्नासिकात्रयम् । परितोऽष्टौ विंशतिश्च नासिकाः समनिर्गमाः ॥ १९१ । व्यासनिर्गतकूटानि कोष्ठानि परितस्तथा । शेषं तिलकनासादिहारापञ्जरकादिभिः ॥ १९२ ।। एकद्वित्रितलं ह्येतद् विशालालयसंज्ञितम् । विशालालयः । आयताश्रमधिष्ठानं स्याच्चतुष्पादिकस्य तु ।। १९३ ॥ व्यासरामांशतो दीर्घं गर्म रामैकभागतः । वेदाश्रं तु सभाकारं शिखरं नवनासिकम् ॥ १९४ ॥ व्यासद्विगुणकायामौ पार्श्वयोः कोष्ठकौ तथा । शेषेणाप्तलखण्डाख्यहर्म्ये स्यातां च तत्पुरः ॥ १९५ ॥ पृष्ठे च विवृतस्तम्भं सरङ्गं मण्डपं भवेत् । तद्वशान्निर्गतं खण्डहर्म्यं तत्कर्णकोटिषु ॥ १९६ ॥ हलशालाश्चतस्रः स्युर्व्यासायामविभागके । कर्णकूटान्तरेष्वष्टौ दण्डशाला भवन्ति हि ॥ १९७ ।। बहिरन्तश्च कोष्ठानि विमानस्य चतुर्दश । शेषं यथार्हमाभूप्य विमानं विचतुर्थयोः ।। १९८ ।। चतुष्पादिकम् ।