पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

क्षत्रियविमानाधिकारः ] उत्तरार्धे एकोनत्रिंशः पटलः । प्रतयस्त्रिविधास्तद्वत् तोरणानि च वेदिकाः । सर्वकायानुकायाढ्यं सर्वाङ्गैरपि मण्डितम् ॥ १६६ ॥ महाराजाह्वयच्छन्दमावासश्चक्रवर्तिनाम् । महाराजच्छन्दम् । मालीगृहस्याधिष्ठानं चतुरश्रायतं स्मृतम् ॥ १६७ ॥

स्याद् वेदांशाद् गर्भगृहं गर्भाद् गृहपिण्डिका ।
जलस्थलं चूडहर्म्यं खण्डहर्म्यं च शेषतः ॥ १६८ ॥ 

शिखरं स्याद् दीर्घसभा पुरस्तान्नासिकाद्वयम् ।

पश्चादेका गेहपिण्ड्यां व्यष्टौ नास्यो यथार्हतः ॥ १६९ ॥
निष्क्रमोपेतकूट(द्यैरुपेतं नैकभूमिकम् ।
मालीगृहम् ।

नन्दीविशालाधिष्ठानं त्र्यंशोद्विक्तायताश्रकम् ॥ १७० ॥

गर्भाख्यं व्यासरामांशाच्छेषेणार्धारिकाप्तलम् |
चूडीकखण्डहर्म्ये च कूटकोष्ठादिभिर्युतम् ॥ १७१ ॥
खण्डहर्म्यात गर्भात् कर्णप्रासादकः समः ।
पार्श्वयोर्हस्तितुण्डे च स्यातां तद्गृहपिण्डिके ।। १७२ ॥ 

शिखरे चापि नास्योऽष्टौ - विंशतिश्च भवन्ति हि ।

शिखरं कोष्ठकं सर्वं कूटाद्यङ्गैश्च भूषयेत् ॥ १७३ ॥
नन्दीविशालम् ।

पृथिवीजयसंज्ञस्य वेदाश्रायतकुट्टिमम् । गर्भगेहं च वेदांशाद् गृहपिण्डिस्तदर्धतः ॥ १७४ ॥ शिखरं कोष्ठकं मध्ये रङ्गं स्याद् गर्भमानतः । मुखे मुखे मण्डपं स्याच्छेषं हर्म्याप्तलादिकम् ॥ १७५ ॥ गृहपिण्डीसमोद्गीर्णे कोष्ठे पूर्वापरस्थिते । पार्श्वयोश्च तथा मूर्ध्नि नासिकास्तिलकान्विताः ॥ १७६ ॥ २९५