पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२९४ ईशानशिवगुरुदेवपद्धतौ चूडिकाखण्डहर्म्ये च शिखरं कोष्ठका कृति । पुरे पुरे च षण्णेत्रे नास्यौ तत्र नियोजयेत् ॥ १५४ ॥ गृहापेड्यां द्विरष्टौ स्युः कर्णेष्वपि च मध्यतः ।

विशालसमभद्वैश्च कूट। द्यैरपि भूषयेत् ॥ १५५ ॥
विशालम् ।

भवेदुत्पलपत्रस्य दीर्घाश्रं तु मसूरकम् । नालीगृहं तृतीयांशाच्छेषांशाद् गृहपिण्डिका ।। १५६ ।। कपोतशाला सद्दर्शी स्यात् तद्वाह्येऽप्तलादिकम् । शिखरं च सभाकारं तत्र नासीत्रयं भवेत् ॥ १५७ ॥ कपोते परितोऽल्पाः स्रष्टात्रिंशत् तु नासयः ।

वेदिकाजालसोपानतोरणाद्यैश्च भूषयेत् ॥ १५८ ॥

उत्पलपत्रम् । अधिष्ठानं महाराजच्छन्दस्याप्यायताश्रकम् ।

नालीगृहं व्यासपादाच्छेषं पिण्ड्यप्तलादिकम् ॥ १५९ ॥ 

कोष्ठकं शिखरं गर्भसमन्यासार्धनिर्गतम् । [क्रियापाद. शालामुखस्य संस्थानं पुरस्तादपि पृष्ठतः ॥ १६० ॥

गृहपिण्ड्यां चार्धहारे चतस्रः स्वल्पनासिकाः ।
चतुर्दिशं महाशाला गर्भमानास्तु कर्णगाः ॥ १६९ ॥ सभाः स्युर्भागनिष्क्रान्ताश्चान्तनाधिरोहणम् ।
निर्यूहार्धेन तत्रापि सोन्नतानतकोष्ठकैः ॥ १६२ ॥
पञ्जराणि तथा कुर्यान्नासयः स्वस्तिकोपमाः ।
हस्त्यादिकाने चत्वारि सोपानानि प्रदक्षिणम् ॥ १६३ ॥
श्रीखण्ड चित्रखण्डाख्यौ स्तम्भौ स्यातामधस्तले ।

पद्मासनपिण्डिपादस्तम्भाश्चोपरिभूमिषु ॥ १६४ ॥

नन्द्यावर्त गजाक्षं च गवाक्षं च मरुत्पथम् ।
तले तले प्रयुञ्जीयादुत्तरं त्रिविधं तथा ।। १६५ ॥

१. 'षणैः' ग. पाठः.