एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
२९४ ईशानशिवगुरुदेवपद्धतौ चूडिकाखण्डहर्म्ये च शिखरं कोष्ठका कृति । पुरे पुरे च षण्णेत्रे नास्यौ तत्र नियोजयेत् ॥ १५४ ॥ गृहापेड्यां द्विरष्टौ स्युः कर्णेष्वपि च मध्यतः ।
विशालसमभद्वैश्च कूट। द्यैरपि भूषयेत् ॥ १५५ ॥ विशालम् ।
भवेदुत्पलपत्रस्य दीर्घाश्रं तु मसूरकम् । नालीगृहं तृतीयांशाच्छेषांशाद् गृहपिण्डिका ।। १५६ ।। कपोतशाला सद्दर्शी स्यात् तद्वाह्येऽप्तलादिकम् । शिखरं च सभाकारं तत्र नासीत्रयं भवेत् ॥ १५७ ॥ कपोते परितोऽल्पाः स्रष्टात्रिंशत् तु नासयः ।
वेदिकाजालसोपानतोरणाद्यैश्च भूषयेत् ॥ १५८ ॥
उत्पलपत्रम् । अधिष्ठानं महाराजच्छन्दस्याप्यायताश्रकम् ।
नालीगृहं व्यासपादाच्छेषं पिण्ड्यप्तलादिकम् ॥ १५९ ॥
कोष्ठकं शिखरं गर्भसमन्यासार्धनिर्गतम् । [क्रियापाद. शालामुखस्य संस्थानं पुरस्तादपि पृष्ठतः ॥ १६० ॥
गृहपिण्ड्यां चार्धहारे चतस्रः स्वल्पनासिकाः । चतुर्दिशं महाशाला गर्भमानास्तु कर्णगाः ॥ १६९ ॥ सभाः स्युर्भागनिष्क्रान्ताश्चान्तनाधिरोहणम् । निर्यूहार्धेन तत्रापि सोन्नतानतकोष्ठकैः ॥ १६२ ॥ पञ्जराणि तथा कुर्यान्नासयः स्वस्तिकोपमाः । हस्त्यादिकाने चत्वारि सोपानानि प्रदक्षिणम् ॥ १६३ ॥ श्रीखण्ड चित्रखण्डाख्यौ स्तम्भौ स्यातामधस्तले ।
पद्मासनपिण्डिपादस्तम्भाश्चोपरिभूमिषु ॥ १६४ ॥
नन्द्यावर्त गजाक्षं च गवाक्षं च मरुत्पथम् । तले तले प्रयुञ्जीयादुत्तरं त्रिविधं तथा ।। १६५ ॥
१. 'षणैः' ग. पाठः.