पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पाशविचाराधिकारः ] उत्तरार्धे द्वितीयः पटलः । .." तथैव पाशास्त्रिविधास्तु देहिनां मलं च मायाप्यथ कर्मसञ्चितम् । तदाणवं नाम मलं सहोद्भवं यदेव मायेयककार्मणाह्वयम् || पाशा अपि त्रयो ज्ञेया मलं माया च कर्म च । " इति वरुणः । "पाशस्तु मलकर्ममाययास्तेषां पशूनां त्रिविधा ।" इति रामकण्ठे । स्वायम्भुवे च इति च । "अथानादिमलं पुंसां पशुत्वं परिकीर्तितम् । तुषकम्बुकवज्ज्ञेयं मायापापाङ्कुरस्य तत् ॥ मायातत्त्वं जगद्वीजमविनाश्यं शिवात्मकम् । कर्म तद् द्विविधं भोग्यम् " "अनात्मभूतेऽत्र कलेवरे पशोर्यदात्मबुद्धिर्ममता च वस्तुषु । असत्सु सद्बुद्धिरितीह तत् त्रयं मलाख्यमज्ञानमिदं परिस्फुटम् ॥ सहजो हि मलो माया कार्यमागामिको मलः " इति किरणे । तथाच मतङ्गे - " मोहो नाम मलः पुंसां सहजोऽनादिमान् मतः । यो हि षण्णां मुदादीनां प्रधानत्वाद् द्विजोत्तम! ||” इति । "मलं चाशुद्धिरज्ञानमिति वरुणः । "मोहो मदश्व मात्सर्य रागद्वेषौ च तृष्णया लोमश्च सप्तधाज्ञानमलं यत् सहजं पशोः || ” इति बृहत्कालोत्तरे । "मायेत्युक्ता कलाद्यात्र क्षित्यन्ता तत्त्वसंहतिः । यस्यां विश्वप्रपञ्चोऽयं सहाभिः दयातिगोचरः ॥ कलादिकं तु तत्कार्यं सूक्ष्मं स्थूलं धरान्तकम् । स्वकर्मतः शरीरेऽस्मिन् सम्बद्धमनुमीयते ॥ सर्वकार्य यतो माति मायातत्त्वमतः स्मृतम् ॥” इति पराख्ये । २३