पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२२ तथाच किरणे - ईशान शिवगुरुदेवपद्धतौ "पशुर्नित्योऽप्यमूर्तोऽज्ञो निष्क्रियो निर्गुणः प्रभुः । व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः ॥" इति । वरुणोऽप्याह- “किञ्चिज्ज्ञो मलिनो भिन्नः कर्ता भोक्ता स्वकर्मणाम् । शरीरान्यो विभुर्नित्यः संस्कार्यः सेश्वरः पशुः || ” इति । स्वायम्भुवे च - " अचेतनो विभुर्नित्यो गुणहीनोऽक्रियोऽप्रभुः । व्याघाती भोगशक्तश्च शोध्यो बोध्योऽकलः प्रभुः ॥" इति । पराख्ये च - [क्रियापादः "देहाढ्यो नश्वरो व्यापी विभिन्नः समलो जडः । स्वकर्मफल (भुक्ता ? भोक्ता ) च किञ्चिज्ज्ञः सेश्वरः प्रभुः ॥" इति । किं बहुना - यदा नियत्या विनियम्यतेऽवशः पशुः समे कर्मणि कालयोगतः । शिवेच्छया शक्तिनिपातशोषितस्ततो विमुच्येत यथार्हदीक्षया ॥ १२ ॥ अत्र · "समे कर्मणि सञ्जाते कालान्तरवशात् ततः तीव्रशक्तिनिपातेन" इत्यादिना किरणेऽभिहितत्वाद् दीक्षितस्य पाशमुक्तिः सिद्धेत्यत स्त्वदीक्षितो बद्ध एव । 'अथात्मा मलिनो बद्धः पुनर्मुक्तश्च दीक्षया" । इति । स्वायम्भुवे । अत्र ― बद्धः पाशैः पशुर्देही सोऽसम्यग्ज्ञानहेतुतः ॥ १३ ॥ गवादिवद् भोक्तृतया यद् यदित्थं तथैव तत् । पशुविचाराधिकारः ।