पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पशुविचाराधिकारः ] उत्तरार्धे द्वितीय: पटलः । पशुः प्रागीश्वरो विद्यायोनिर्मुक्तिरिहान्तिमा । इति श्री पराख्ये । “इतीह षट्पदार्थानां पृथग् याथार्थ्यनिर्णयः । विदित्वा समयी सम्यग् भोगं मोक्षं च विन्दति ॥ न पशुर्नाममात्रेण शरीरी परिभाव्यते । शरीरेऽस्मिन् कुतो ह्यात्मा शरीराद् व्यतिरिच्यते ॥ " इति मतङ्गे । तथाहि- बौद्धाः क्षणध्वंसिनमाहुरेनं विज्ञानसन्तानमयं च युक्त्या ।

२१ तं प्रत्यगात्मानमुशन्ति नित्यं व्यय्यन्तिदन्ति प्रवरास्तथैकम् ॥ ३ ॥ आशाम्बरा देहमितं स्वतन्त्रं तं गर्विचार्वाकपिशाचसङ्घाः । प्राहुस्तथा भूतनिकायमात्रदेहेन्द्रियात्मानमिहैकमानात् ॥ ४ ॥ स ांख्याः सङ्ख्यापरं त्वेनं प्राहुः प्रकृतिवादिनः । बद्धावस्थमकर्तारं मुक्तावस्थागतं विदम् || ५ || जैमिनीयमतैर्ज्ञानी कर्तानेकात्मतां गतः । मुक्तौ पाषाणकल्पो वा धर्मज्ञानैकसाधनात् ॥ ६ ॥ नैयायिकादिभिर्भिन्नो बुद्धिदुःखसुखान्वितः । इच्छाद्वेषप्रयत्नैश्व धर्माधर्मयुतोऽपि च ॥ ७ ॥ संस्कारवान् नवगुणो ह्यात्मा प्रतितनु स्मृतः । शब्दार्थयोरभेदेन शब्दात्मनित्यताम् ॥ ८ ॥ बद्धं मुक्तं च तज्ज्ञानाद् येऽमी व्याकरणास्पदाः । एवं मिथो विरोधेन ह्यात्मा तीर्थैः पृथक् स्मृतः ॥ ९ ॥ स पशुः पाशितः पाशैः पतिः पाशयिता शिवः ॥ ९३॥ पशुस्त्वमूर्तः खल्ल नित्यनिर्गुणः स निष्क्रियो ज्ञप्रभुदेहगोचरः । मलादशुद्धोऽपि च भोक्तृतां गतः स्वकर्मणामीश्वरमायया वृतः ॥ १० ॥ स्वयं तु किञ्चिज्ज्ञतयाथ रागतः स रञ्जितः सत्त्वरजस्तमोगुणैः । तथापि बुद्ध्यादिभिरेव बुध्यते विचिन्तको भोगविधान तृष्णया ॥ ११॥