पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

क्षत्रियविमानाधिकारः ] उत्तरार्धे एकोनत्रिंशः पटलः । तत्राष्टौ नासयः पार्श्वे (सुस ) भद्रं वा विभद्रकम् ।

एकाद्यभीष्टतलकं राजस्त्रीणां निकेतनम् ॥ १२१ ॥
गणिकाविशालम् |

कर्णभद्रस्य च प्राग्वदधिष्ठानादिकं भवेत् । शिखरं च सभाकारं सचतुर्मुखनासिकम् ॥ १२२ ॥ अन्तर्लीनार्कनासाः स्युर्गृहपिण्ड्यप्तलान्तरे । स्तम्भान्तलन सोपानाः कपोतेनैकनासिकम् ॥ १२३ ॥

कर्णप्रासादकाश्चूडहर्म्ये गर्भसमायताः । 

कपोतपञ्जरैः सिंहपञ्जरैर्लम्बनासिकैः ॥ १२४ ॥

गूढागूढक्रियास्तम्भभित्तिद्वारैश्च तोरणैः ।

चतुष्कोणे भद्रयुक्तं दिक्षु भद्रसभान्वितम् ॥ १२५ ॥

स्वस्तिभद्रकजालाद्यैर्भूषितं कर्णभद्रकम् ।

कर्णभद्रकम् । कर्णशालस्य च प्राग्वदधिष्ठानादिकं स्मृतम् ॥ १२६ ॥ चतुष्कर्णे भद्रशाला मध्यानिर्यूहकाः सभाः । भारान्तरप्रयोगं च यथाविधि निवेशयेत् ॥ १२७ ॥ गृहपिण्ड्या समाश्लिष्टमन्तर्लीनमलिन्दकम् । पिण्डिः कपोतशाला स्यात् कण लाङ्गलभित्तिकम् ॥ १२८ ॥ अन्तरे स्थापयेत् स्तम्भं तद्भित्तावष्टनासिकाः । ऊर्ध्वभूकण्ठशिखरं सभाकारं प्रयोजयेत् ॥ १२९ ॥

ककरीभद्रक्वत्राङ्गं युग्यद्वारं यथारुचि ।

त्रिभौमं सप्तभौमं वा आवृताल्पार्कनासिकम् ॥ १३० ॥

वेदीजालादिभिश्चापि यथेष्टावयवैर्युतम् ।

कणशालम् । २९१ १. 'रुमद्वा' क. पाठः.