पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२९... ईशानशिवगुरुदेव पद्धतौ [क्रियापादः विशालभद्राधिष्ठानं प्राग्वद् व्यासे दशांशके । द्विभागो गर्भविस्तारः शेषेण गृहपिण्डिकाम् ॥ ११० ॥

ब्रह्मद्वारं चूडहर्म्यं खण्डहर्म्ये च कल्पयेत् ।
पुरस्ताद गर्भदीर्घं स वेदाश्रं मण्डपं भवेत् ॥ १११ ॥
अभितोऽर्धेन कुड्यं चाप्यप्तलं खण्डहर्म्यकम् । 

चूडीक कर्णप्रासादः शृङ्गं ककरकोष्ठकम् ॥ ११२ ॥

कपोतशाला पिण्डिः स्यादथ पिण्ड्यास्तु निर्गतम् ।
समर्पितसभारूपं मध्यमं मण्डनं भवेत् ॥ ११३ ॥ 

गर्भव्यासं तद्ध्यर्धद्विगुणायाममानतः ।

हारापञ्जरपूर्वाङ्गेर्निष्क्रान्तस्य सभाकृतिः ॥ ११४ ॥

प्रासादमण्डपाग्रे च पृष्ठे तत्पार्श्वपत्रयुक् । शिखरं चाष्टनासं स्यात् तिलकान्यथ षोडश ।। ११५ ॥ मण्डपोपरि रङ्गं स्यादेकानेक तलान्वितम् । विशालभद्रम् । आधष्ठानं तु वेदाश्रं चतुरंशाधिकायतम् ॥ ११६ ॥ गणिकादिविशालस्य शेषमर्धारिकाप्तले । खण्डहर्म्य च भवति कर्णप्रासादमध्यमे ।। ११७ ॥ प्राग्वन्मण्डन निर्यूह कर्णमध्ये तथान्तरे । स्तम्भाः स्युर्ग्रहपिण्ड्याश्च पुरस्तान्मण्डपं भवेत् ॥ ११८ ॥ नाली गृहायामसमं मध्ये रङ्गं च तस्य तु ।

शेष हर्म्यस्थल बाह्ये कुट्टिमं जालकान्वितम् ॥ ११९ ॥

पिण्डि : कपोतजाला स्यात् तस्यां पोडश नासिकाः । शिखरं कोष्ठकं तु स्यात् पुरे ककरभद्रकम् ॥ १२० ॥ १. 'द्वितीयो ग' का पाट: