पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अस्त्रियविमानाधिकारः ] उत्तरार्धे एकोनत्रिंशः पटलः । स्यातां च परितः खण्डहर्म्यं सत्कूटजालकम् । मूलमण्डपकण्ठाभ्यां हस्ति सोपानमन्तरे ॥ ९९ ॥

पुरः स्वस्तिकवद् वंशसभाकारमथापरे ।
नवनासं तु शिखरे शालाबन्महिषाननम् ॥ २०० ॥

वेदीजालादिभिः शेषं प्राग्वदाभूष्य माहिषम् । माहिषम् । तन्त्रीकान्तमसूरं च चतुरश्रायतं भवेत् ॥ १०१ ॥ तया सार्धं गर्भगृहं शेषं स्याद् गृहपिण्डिका । अप्तलं खण्डहर्म्यं च शिखरं कोष्ठमेव हि ।। १०२ ॥

सभामुखं पुरस्तात् स्यान्महानासी च पृष्ठतः ।
तंत्र षोडश नास्यः स्युरष्टौ तिलकनासिकाः ॥ १०३ ॥
महाद्वारे क्रमात् सिंहपञ्जराणि दशैव तु ।
कपोताधो वेदकर्णलाङ्गलाख्यसभोद्गमम् ॥ १०४ ॥ 

मध्यं सभामुखोपेत महानासीचतुष्टयम् ।

प्रमाणगेहविपुलनिर्गतं स्याद् यथारुचि ॥ १०५ ॥
कूटाद्यैर्भूषितं स्वाङ्गैस्तन्त्रीकान्तं प्रचक्षते ।
तन्त्रीकान्तम् ।

आयता श्रमधिष्ठानं विजयाङ्गस्य तस्य तु ॥ १०६॥

व्यासत्रिभागाद् गर्भाख्यं शेषं पिण्ड्यप्तलादिकम् | 

अष्टनासं तु शिखरं भवेत् ककरकोष्ठकम् ॥ १०७ ॥ कपोते तिलनास्यः स्युश्चतुर्विंशतिसंख्यया ।

सोपानमन्तर्लीनं स्याद् भूमौ भूमौ च मण्डपम् ॥ १०८ ॥
गर्भप्रमाणं तद्ब्राह्ये खण्डैहर्म्यावली भवेत् ।

युक्त्याङ्गैः शेषमाभूष्य विजयाङ्गमिति स्मृतम् ॥ १०९ ॥

विजयाङ्गम् ।

२८९ १. "भङ्गमम्' ग. पाठः २. ध्या' क. ख. पाट:. ३. 'ण्ड', ४. 'का' क. पाठः.