पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२८८ ईशान शिवगुरुदेवपद्धतौ मन्त्रपूतस्य वेदाश्रमायतं स्यान्मसूरकम् । विस्तारार्धेन गर्भाख्यं शेषात् पिण्डी जलस्थले ॥ ८८ ॥ [क्रियापादः हारावली च स्यात् तस्य शिखरं तु सभाकृति ।

अन्तःस्तम्भं बहिः कुड्ये नानाजालकशोभितम् ॥ ८९ ॥ 

कूटकोष्ठादिकैर्दिक्षु विदिक्षु च विभूषयेत् ।

द्व्यष्टास्यस्तु शिखरे कपोते लम्बनासिकाः ॥ ९० ॥
चतुर्विंशतिसंख्याः स्युर्द्वाराण्यपि चतुर्दिशम् ।
पुरस्तान्मण्डपं गर्भसमं बाह्ये च कुड्यकम् ॥ ९१ ॥
अलिन्दं खण्डहर्म्यं च कर्णे गर्भमिताः सभाः ।
तदन्तरे महाकोप्रैः कूटाद्यैश्च विभूषयेत् ॥ २२ ॥

मन्त्रपूतम् । आवन्त्यस्याप्यधिष्ठानं स्वव्यासाधीयताम् ।

अष्टांशांश गर्भगृहं भागैः पिण्ड्यादिकं त्रयम् ॥ ९३ ॥ 

पिण्ड्याचापि चतुष्कर्णे लाङ्गलाकारभिति कम् । तदन्तरे च पूर्वाश्रस्तम्भाव्यं शिखरं तु तत् ॥ ९४ ॥ सभाकारं चतुर्नासं मुखे भद्रसभान्विते । रास्यः स्युरन्तरे पृथुनासिकाः ॥ ९५ ॥ वल्ली मण्डलसोपानमन्तलीनं प्रयोजयेत् । गुह्या गुह्य क्रिया कुड्यस्तम्भयुक्तं तु नैकधा ॥ ९६ ॥ पादैश्च वेदीजालाचै भूषयेद् बहुभूमिकम् । २ आवन्त्यम् । माहिषस्यायताश्रं स्यादधिष्ठानं तु तत्ततीत् ॥ ९७ ॥

तृतीयांशाद् गर्भगृहं शेषात् पिण्ड्या दिकं त्रयम् । 

तत्पुरस्ताच्च पृष्ठे च मध्यरत्रे तू मण्डपे ॥ ९८ ॥ १. क.. पाठः २. 'न्तिकम्' ख. पाठः ३. 'तदा' क. पाठ:.