पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

क्षत्रियविमानाधिकारः ] उत्तरार्धे एकोनत्रिंशः पटलः । वृद्धसोपानमेवान्तली स्याद् भानुकान्तर्के । भानुकान्तम् । अत्यन्तकान्ताधिष्ठानं चतुरश्रं हि तस्य तु ॥ ७८ ॥

तृतीयांशाद् गर्भगृहं शिखरार्धें समाकृति । 

अर्घार्यप्तलहासश्चाप्यशाभ्यां कर्णकेष्वथा ॥ ७९ ॥

गर्भ तुल्या वेदसमा महाकोष्ठानि चान्तरे ।
कपोते परितश्वापि द्वयष्टौ तिलकनासिकाः ॥ ८० ॥
यथार्ह भूषयेच्छेषमेतदत्यन्तकान्तकम् ।

अत्यन्तकान्तम् । मसूरं चन्द्रकान्तस्याप्यायतं मण्डलाकृति ॥ ८१ ॥ ब्यासार्घाद् गर्मगेहं स्याच्छेषं पिण्डयादिकं भवेत् ।

दीर्घवृत्तं च शिखरं तत्राष्टौ पृथुनासिकाः ॥ ८२ ॥ 

अल्पनास्यश्च तावत्यः शेषं प्रागिव भूषयेत् । चन्द्रकान्तम् ।

ब्राह्मणविमानाधिकारः ॥

चतुःस्फुटस्याधिष्ठानं प्राग्वद् दीर्घायतं भवेत् ॥ ८३ ॥

व्यासपादाद् गर्भगृहं रार्भार्धं गृहपिण्डिका । 

शिष्टेनाप्तेलकं चूडाखण्डहर्म्ये च कल्पयेत् ॥ ८४ ॥

शिखरं कोष्ठकाकारं गर्भार्धान्मध्यनासिका । 

पार्श्वे द्वे द्वे महानास्यौ कूटकोष्ठादि पूर्ववत् ॥ ८५ ॥ तलेतले तु स्तम्भेषु वेदिकाजालकादिकम् । पुरस्तान्मण्डपं तुल्यमन्तः स्तम्भं तु तद्बहिः ॥ ८६ ॥

लाङ्गलाकृति कुख्यं तु यथाशोभं विभूषयेत् ।
त्रितलादियुतं नैकतलमेतच्चतुःस्फुटम् ॥ ८७ ॥ 

चतुःस्फुटम्। २८.७