पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૮ ईशानशिवगुरुदेवपद्धतौ ऋतुवर्धनकस्यापि स्वव्यासाधयताश्रकम् । अधिष्ठानं तु तद्वयासत्रिभागाद् गर्भमन्दिरम् ॥ ६७ ॥

समन्ताद्-गर्भरामांशभागादर्धारिका भवेत् ।
शेषमप्तल चूडीकहर्म्यं कुट्टिमसंयुतम् ॥ ६८ ॥
मुखेमुखे विमानस्य मण्डपं गर्भसम्मितम् । 

त्रासादवत् स्थलं बाह्मे चूडहर्म्यान्वितं तु तत् ॥ ६९ ॥

कर्णकूटानि चत्वारिं शिखरं कोष्ठकं महत् ।
चतस्रस्तत्रार्धसभा गर्भकूटानि वै मुखे ॥ ७० ॥

पुरः पृष्ठे सभा मत्तवारणं मण्डपो भवेत् ।

चतस्रोऽङ्गसभाः कार्याः शेपाण्यङ्गानि पूर्ववत् ॥ ७१ ॥
विवृतस्तम्भकैर्बाह्ये जालं स्यात् परितोऽपि च ।

[क्रियापादः अन्तर्लीनं हि सोपान (मु? यु) क्तं स्यात् क्रतुवर्धनम् ॥ ७२ ॥ ऋतुवर्धनम् ॥ वृत्तं वृत्तगृहस्य स्यादधिष्ठानं तदायतम् ।

तादृशं शिखरं तत्र चतस्रः पृथुनासिकाः ॥ ७३ ॥ 

अल्पास्तावत्य एवास्य गृहपिण्ड्यादि पूर्ववत् ।

पृष्ठे गर्भप्रमाणं तदर्धभद्रं तु पिण्डिके || ७४ ॥
त्रिरष्टौ नासिका योज्या मुखे मण्डिगृहो (९) भवेत् ।

वृत्तग्रहम् । आयताश्रमधिष्ठानं भानुकान्तस्य तस्य तु ॥ ७५ ॥

व्यासार्धाद् गर्भगेहं स्याच्छेपेण गृहपिण्डिका । 

असलं खण्डहम्यै च शिखरं द्वादशाश्रकम् ॥ ७६ ॥ नासयो द्वादशैवास्मिन् गृह पिण्ड्यामधो सभाः । षोडश स्युश्च तन्मध्ये महाकोष्ठचतुष्टयम् ॥ ७७ ॥ १. क. ख. पाठः.