पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ब्राह्मणविमानाधिकारः] उत्तरार्धे एकोनत्रिंश: पटल: । विमानस्य पुरस्तात् तु गर्भमानेन मण्डपम् !

पार्श्वयोश्च सभारूपा वेदशालास्तु मध्यतः || ५३ ।।
नासी स्याच्छिखरोपेता पिण्ड्यां नास्यस्तु षोडश ।
सभाशालाभशिखरं चतस्रस्तत्र नासिकाः ॥ ५७ ॥ 

पादबन्धमधिष्ठानं स्तम्भाः सर्वे विकल्पकाः ।

ऊहप्रत्यूहसंयुक्तं हस्तिसोपानसंयुतम् ॥ ५८ ॥

जालकाद्यैः समाभ्रूण्य विमानं स्याद् द्विकूटकम् |

द्विकूटकम् |

श्रीवर्धनस्य च प्राग्वदधिष्ठानादिकं समम् ॥ ५९ ॥ शिखरं स्यात् सभाकारमायतं तस्य चागग्रतः । पृष्ठे च नासिकैका स्याद् द्वे द्वे स्यातां च पार्श्वयोः ॥ ६० ॥

वेदिकापञ्जराद्यैश्च यथायुक्त्या विभूषयेत् ।

श्रीवर्धनम् । वृत्तायतमधिष्ठानमुक्तं पद्मगृहस्य तु ॥ ६१ ॥

तद्व्यासे वसुनन्दांशे द्वित्र्यंशैर्गर्भ मन्दिरम् ।

शेषं प्रागिव योज्यं स्यान्नासिकाः षोडशैव तु ॥ ६२ ॥ वृत्तायतं च शिखरं चतस्रस्तत्र नासिकाः । अल्पाश्च नासयोऽत्राष्टौ चतस्रस्तिलकान्विताः ।। ६३ ॥ पद्मगृहम् । प्रेक्षागृह मुखस्यापि स्यादधिष्ठानमायतम् । चतुरश्रस्य विस्तारादर्घ गर्भगृहं भवेत् ॥ ६४ ॥

गर्भव्यासेन तत्पार्श्वमण्डपानां चतुष्टयम् ।

शिखरं कोष्ठकाकारं तत्र नास्यः षडेव हि ॥ ६५ ॥

कपोते चार्क संख्यास्ताः शेषं प्राग्वन्नियोजयेत् ।
अलङ्कारश्च कर्तव्यो वेदीजालमरुत्पथैः ।। ६६ ।।

प्रेक्षागृह । क. पाठः २. 'स्त' क. ख. पाउ: ३. 'स्य क. पाठः.