पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२८४ ईशानशिवगुरुदेवपद्धतौ खण्डहर्म्यं भवेचूडहर्म्यं चापि समन्ततः ।

वृद्धसोपानमेवान्तसीनमङ्गानि पूर्ववत् ॥ ४५ ॥

प्रयोज्यानि सभाकारं शिखरं तत्र नासयः । [क्रियापाद: द्विपञ्चाशत् समान्येवं (1) पुरस्तान्मण्डपान्वितम् ॥ ४६ ॥

एकानेकतलं ह्येतत् सोमच्छन्दं द्विजोचितम् ।
सोमच्छन्दम् ।

चतुरश्रायतं तु स्यान्नागच्छन्दमसूरकम् ॥ ४७ ॥

तत्रिवेदांशतोऽशेन गर्भव्यासस्ततोपि च ।
तृतीयांशेन परितो गृहपिण्डि प्रकल्पयेत् ॥ ४८ ॥
प्रासादखण्डहर्म्यान्तं मण्डपं स्याच्च तादृशम् ।
सोपानं खण्डहर्म्यर्धाच्छिखरं वृत्तमायतम् ॥ ४९ ॥ 

सभाकारं तु तस्या गर्भार्घात् पृथुनासिका । तदर्घात् परितो नास्यः सर्वा नागोपमाः समाः ॥ ५० ॥ वृत्तस्फुटं पुरोनास्यां मूलभूमौ तथोपरि । वसुवेदाश्रकाः स्तम्भाः शेषं पूर्ववदाचरेत् ॥ ५१ ॥ नागच्छन्दम् । अधिष्ठानादिकं प्राग्वत् कुव्यावर्तस्य योजयेत् ।

ब्रह्मद्वारपताकाभ्यां शेषमाभूष्य यत्नतः ॥ ५२ ॥
अन्तलीनं हस्तिसंज्ञ सोपानं शिखरं तथा ।
'शालाकारं भवेत् तत्र नास्यः सङ्कृतिसङ्ख्यया ॥ ५३ ॥
मुखे मुखे महानास्यः पार्श्वे तिलकनासिकाः । 

प्रयोज्यास्तदिदं प्रोक्तं कुब्यावर्ते द्विजोचितम् ॥ ५४ ॥

कुड्यावर्तम् ।

द्विकूटस्याप्यधिष्ठानं गर्भागारं च पूर्ववत् । - शेषं जलस्थलं खण्डहर्म्यकूटादिभूषितम् ॥ ५५ ॥