पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ब्राह्मणविमानाधिकारः] उत्तरार्धे एकोनत्रिंशः पटलः ।

चतुरश्रमधिष्ठानं सभद्रं वृत्तशीर्षकम् ॥ ३८ ॥ 

एकभौमं चतुर्नासं विजयाख्यं हरिप्रियम् । विजयम् । तदेव सौष्ठिकोपेतमष्टाश्रगलशीर्षकम् ॥ ३९ ॥

युक्तं ललितकान्ताख्यं सर्वाङ्गैः सार्वदैवतम् ।
ललितकान्तम् ।

तदेव वृत्तशिखरं श्रीकरं श्रीधरप्रियम् ॥ ४० ॥

श्रीकरम् ।

तदेव चतुरश्रामशिखरं साष्टपञ्जरम् । . कर्णकूटविहीनं तु श्रीविशालं शिवप्रियम् ॥ ४१ ॥

श्रीविशालम् ।

अत्र पराशरः इत्थं द्वात्रिंशदुक्तानि सामान्यानि विशेषतः । जातीतराणि सर्वेषां विमानानि दिवौकसाम् ॥ ४२ ॥ - “एभिरेवाप्यलङ्कारैः स्यात् कनिष्ठाल्पकेष्वपि ।

नामान्यपि च तान्याहुस्ततन्मण्डनभेदतः ||"

इति । तानि च क्षुद्राल्पविमानानि परतः कथ्यन्ते । I १. जातीतरविमानालङ्काराधिकारः । अथ जातिविमानानामलङ्कारो निगद्यते ।

सोमच्छन्दस्य वेदाश्रमधिष्ठानमथास्य तु ।। ४३ ।। 

रामांशाद् गर्भगेहं स्याद् गर्भार्घाद् गृहपिण्डिका ।

पिण्ड्या सहैवाम्बुतलं परितः शेषतोऽपि चं ॥ ४४ ॥

'क' ख. पाठः. २. 'षि' क. ख. पाठः ૨૮૨