पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२८२ ईशानशिवगुरुदेव पद्धतौ सोपपीठमधिष्ठानं नानावयवसुन्दरम् । विमानं मेरुकूटाख्यं कूटाद्यङ्गैश्च मण्डितम् ॥ ३१ ॥

मेरुकूटम् ।

मध्यभद्रं विना तत्र कोष्ठकं ककर भवेत् ।

शेषं पूर्ववदाभूष्य चित्रकूटं हरिप्रियम् ॥ ३२ ॥
चित्रकूटम् ।

तदेव सौष्ठिकैर्युक्तमष्टाभिः साष्टनासिकम् । श्रीमण्डनं विमानं स्याच्छ्रीकरं सार्वदैवतम् ॥ ३३ ॥ श्रीमण्डनम् । तदेव खलु सौमुख्यमष्टकूटा ष्टशालकम् ।

सौमुख्यम् ।

तदेव चतुरश्राभशिखरं जयमङ्गलम् || ३४ ॥ जयमङ्गलम् । तदेवाष्टाश्रशिखरं नीलपर्वतसंज्ञितम् ।

नीलपर्वतम् ।

तदेव कूटशालाभिर्विहीनंः सोऽष्टपञ्जरः || ३५ ॥

यथेष्टशिखरच्छन्दः प्रासादो निषधः स्मृतः ।
निषधः ।

वेदादीर्घाधिष्ठानं शालाकार शिरोन्वितम् ॥ ३६ ॥ कूटकोष्ठकनीप्राद्यैः सर्वत्रैरपि मण्डितम् । नानाधिनपादाढ्यं विमानं मङ्गलाह्रयम् || ३७ ॥ श्री श्रीधरधरादुर्गागौरी मातृगणप्रियम् । मङ्गलम् | [क्रियापादः