पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

जातीतरविमानालङ्काराधिकारः ] उत्तरार्धे एकोनत्रिंशः पटलः । एकादशकरव्यासं सप्ताष्टनवभागवत् ॥ २१ ॥

त्रिचतुष्पञ्चभागेन नालीगेहं समन्ततः । 

शेषं हारावलीकूटकोष्ठाद्यैर्भूषयेदपि ॥ २२ ॥ सभद्रं शिखरं वृत्तं चतुर्नासं द्विभूमिकम् । चतुष्कूटं चतुश्शालं समन्तात् तिलकैर्युतम् ॥ २३ ॥

सुवृत्तकर्णकूटाग्र विमानं रुद्रकान्तकम् ।

रुद्रकान्तम् । तदेव भद्रकोष्ठाङ्गं योगभद्रं प्रचक्षते ॥ २४ ॥

योगभद्रम् ।

- तदेव वेदाश्रशिरः सौष्ठिकाग्रमंलङ्कृतम् । शिखरेऽष्टापनासं च भोगिच्छन्दाह्वयं भवेत् ॥ २५ ॥

भोगिच्छन्दम् ।

तदेव कण्ठे शिखरे षडश्रं चेत् सुदर्शनम् ।

सुदर्शनस्य विष्णोर्वा भवनं तत् प्रचक्षते ॥ २६ ॥ 

सुदर्शनम् । तदेव स्कन्दकान्तं स्यात् षण्णासीभिरलङ्कृतम् । यथोचिताङ्गसम्पन्नं विमानं षण्मुखप्रियम् ॥ २७ ॥ स्कन्दकान्तम् । तदेवाखिलमष्टाश्रं कर्णकूटशिरोगलम् । सभद्राङ्गं चतुर्नासं विन्ध्यच्छन्दं द्विभूमिकम् ॥ २८ ॥ विन्ध्यच्छन्दम् । -- नवसप्तकरव्यासं सप्तषड्भागयान्वितम् । चतुष्कूटचतुःशालायुक्तं वृत्तशिरोगलम् ॥ २९ ॥

अल्पानल्पचतुर्नासमष्टपञ्जरतोरणम् ।

समध्ये भद्रतिलकैर्मसूरस्तम्भकैर्युतम् ॥ ३० ॥ १. 'ध्यपन' ल. पाठः. ММ २८१