पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[क्रिपाद ईशानशिवगुरुदेव पद्धतौ तदेव कोष्ठकं सर्वं स्वविस्तारार्धनिर्गतम् । तले तले महानास्यौ पक्षयोरर्धकोष्ठवत् ॥ १३ ॥ हंसच्छन्दमिदं प्रोक्तं विमानमतिसुन्दरम् । हंसच्छन्दम् । एतदेव हि वेदाश्रकण्ठं वेदाश्रमस्तकम् || १४ || शेषं प्रागुक्तवत् सर्वे वृषच्छन्दमिदं स्मृतम् ।

वषच्छन्दम् ।

तदेव गरुडच्छन्दं विमानमथ कथ्यते ॥ १५ ॥ मुखे भद्राङ्गनासं तु पक्षयोरर्धकोष्ठवत् । पार्श्वयोर्द्विद्विनासं च सवृत्तस्फुटितं गलम् ॥ १६ ॥ शेषं मेरुसमाकारं गरुडच्छन्दमेव तत् । गरुडच्छन्दम् । तदेवाष्टाश्रकण्ठं चेदष्टाश्रशिखरं पुनः ॥ १७ ॥

पद्मसङ्काशशीर्ष च पद्माङ्गं ब्रह्ममन्दिरम् |

पद्माङ्गम् । तदेव व्यासनिष्क्रान्तं मध्यकोष्ठं चतुर्दिशम् ॥ १८ ॥ पद्मकुट्मलशीर्षं तु पद्मभद्रमिदं स्मृतम् । पद्मभद्रम् । / तदेव कण्ठे शिखरे वृत्तं चेत् पृथुनासिकम् ॥ १९ ॥

मुखे मुखे द्विपक्षे तु तिस्रो नास्यः समानिकाः । 

तलं प्रति सभद्राङ्ग सर्वत्र तिलकैर्युतम् ॥ २० ॥

सद्वारं वापि चाद्वारं योगकैलासकान्तकम् ।
कैलासकान्तकम् ।

१. 'ख' क. पाठः.