पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

जातीतरविमानालङ्काराधिकारः ] उत्तरार्धे एकोनत्रिंशः पटल: ।

नीडं शेषं हि हारांशं कूटादिसमसूत्रकम् । 

स्वस्तिकाबन्धवन्नास्यस्त्रिचतुःपञ्चभूमिकम् || ५ || नानाधिष्ठानकस्तम्भवेदिकाजालतोरणैः । वृत्तस्फुटितनी डाद्यैर्भूषयन्मेरुमादरात् || ६ ||

मेरुविमानम् ।

तदेव कण्ठे शिखरे चतुरश्रं तु मन्दरम् । मन्दरम् । तदेव वस्वश्रगल शिखरं वसुनासिकम् ॥ ७ ॥ अष्टपञ्जरकूटं च नाम्ना कैलासमिष्यते ।

कैलासम् ।

वेदवस्ववृत्ताभगर्भगेहं तदेव हि ॥ ८ ॥

समद्रनासिकं ख्यातं विमानं कुम्भसंज्ञितम् ।
कुम्भविमानम् ।

वेदाश्रगर्भगेहं तज्जयाङ्गाख्यं सभद्रकम् ॥ ९ ॥

जयाङ्गम् ।

विशालाङ्गं तदेव स्याद् वृत्तं शिखर कण्ठयोः । विशालाङ्गम् । तदेव मध्ये हित्वांश कोष्ठयुक्तं द्विभागतः ॥ १० ॥ • अष्टाश्रशिखरग्रीवं तथाष्टगलनासिकम् ।

अष्टपञ्जरकूटं च द्विषष्टितिलान्वितम् ॥ ११ ॥
सावारं वा निरावारं त्रिचतुः पञ्चभूमिकम् ।
विमलाकृतिसंज्ञं हि विमानमिदमद्भुतम् ॥ १२ ॥
विमलाकृति ।

१. 'मण्डयोः क. ख. पाठः २७९.