पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२९२ ईशानशिवगुरुदेवपद्धतौ पद्मासनस्याधिष्ठानमायतं चतुरश्रकम् ॥ १३१ ॥ पञ्चमांशाद् गर्भगृहं गर्भार्धाद् गृहपिण्डिकाः ।

शेषेणाप्तलचूडीकखण्डहर्म्याणि गर्भवत् ॥ १३२ ॥
संश्लिष्टमध्यवासेन दिक्षु कर्णप्रमाणतः ।

प्रासादास्तत्र चत्वारः पृथङ्मण्डप संयुताः ॥ १३३ ॥

विविधस्तम्भवद् रङ्गं तद्बहिः कुड्यकं भवेत् ।
जालवेदीद्वारयुतं खण्डहर्म्याणि बाह्यतः ॥ १३४ ॥
समांशनिष्क्रमाढ्यानि चतुष्कर्णेषु वै पृथक |

[क्रियापाद: कूटानि स्युश्च तन्मध्ये कोष्ठकानि च योजयेत् ॥ १३५ ॥ मध्यावासावृतचतुष्कर्णलाङ्गलकुड्यकम् । अन्तः पूर्वाश्रकस्तम्भमन्तलीं नमलिन्दकम् ॥ १३६ ॥ सभाभाशिखरे वेदमहानासाः स्युरल्पकाः । द्वादशैव बहिष्कर्णान्मुखशालाः समन्ततः ॥ १३७ ॥ यथार्हावयवैर्युक्तमेतत् पद्मवसन्तकम् | पद्मवसन्तकम् । व्यासत्रिभागदीर्घाश्रमिन्द्रकान्तस्य कुट्टिमम् ॥ १३८ ॥

तद्रामांशाद गर्भगृहं गृहपिण्डयादि शेषतः ! 

वेदभद्रसभा दिक्षु चतुष्कर्णेषु नासिकाः ॥ १३९ ॥

कपोतशालानिर्यूहमुख नास्यो भवन्ति च ।

गृहपिण्ड्यां षोडशैव शिखरं च सभाकृति ॥ १४० ॥ तत्कर्णहलभित्तेः स्यात् स्तम्भनिर्यूहमन्तरे । । मुखशोभाल्पनास्योऽष्टौ प्राग्वच्छेषं विभूषयेत् ॥ १४१ ॥ इन्द्रकान्तम् । दीर्घाश्रं योगकान्तस्याप्यधिष्ठानमथोपरि । परिवृत्तायतं व्यासादष्टांशाद् गर्भमन्दिरम् ॥ १४२ ॥