पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे अष्टाविंशः पटलः । प्राग्वदङ्गैरलङ्कृत्य खण्डहर्म्य यथार्हतः । एकादितलवृद्ध्या तु हीने हीने नियोजयेत् || १३० ।। ब्रह्मद्वारपताकाभिः कूटकोष्ठादिभिस्तथा । पुरस्तात् सान्तरालं तु प्रासादाङ्गोपमं पुनः || १३१ ॥ सन्मण्डपं नैकतलमन्तर्लीनाधिरोहणम् । जातिच्छन्दविकल्पादिक्रमसर्वाङ्गयोजितम् ॥ १३२ ॥ उन्नतावनतैः कूटकोष्ठैर्मध्यमभद्रकैः । नानाशिखरसंस्थानैः कैलासगिरिसन्निभम् || १३३ ।। कैलासच्छन्दमुद्दिष्टं शिवस्यैव शिवङ्करम् । कैलासच्छन्दम् । चतुरश्रमधिष्ठानं रुद्रच्छन्दस्य पूर्ववत् ॥ १३४ ॥ नालीगृहादिकं प्राग्वत् कर्णे मध्येऽन्तरे तथा । कूटकोष्ठादयो योज्या व्यासपादांशनिर्गमाः ॥ १३५ ॥ ब्रह्मद्वारं तु सांगेन विसृतं पिण्डिसंश्रितम् । अलङ्कारो शीर्ष स्यान्नानाङ्गैरथ भूषयेत् || १३६ ॥ अधिष्ठ नस्तम्भवेदीजालतोरणपूर्वकैः । चतुरष्टाश्रवृत्ताः स्युः क्रमान्मूलादिभूमयः ॥ १३७ ॥ गलं च शिखरं वृत्तं पुरः पार्श्वे च नासिकाः । गर्भत्र्यंशैकविस्तारास्तिस्रः स्युरथ पश्चिमे ॥ १३८ । तन्मानार्धेन नासी द्वे तिस्रस्तिस्रश्च पार्श्वयोः । तिलकैरन्विताः शेषं रुद्रच्छन्दस्य योजयेत् || १३९ ।। रुद्रच्छन्दम् । चतुरश्रमधिष्ठानमुक्तं ललितमद्रके । तद्विस्तारेऽष्टनन्दांशे द्वित्र्यंशैर्गर्भमन्दिरम् ॥ १४० ॥ गृहपिण्ड्यादयः शेषैर्भागैर्वेदाश्रकाणि च । अष्टाश्रमस्य शिखरमल्पानल्पाष्टनासिकम् ॥ १४१ ॥ १. 'तु' ख. पाठः,