पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७६ 9. ईशानशिवगुरुदेवपद्धतौ चतुष्कोणेषु मध्ये च पञ्चमूर्तिविधानतः । चतुष्कोणे सौष्ठिकानि वृत्तायतशिरांसि च ।। ११८ ॥

सर्वाङ्गालङ्कृतं ह्येतद् विष्णुच्छन्दं हिं वैष्णवम् ।
तले तले च कूटानां शिखरं वृत्तमायतम् ॥ ११९ ॥ 

इष्टकादारुकर्माढ्यं सर्वाङ्गपरिभण्डितम् । विष्णुच्छन्दम् । सौभद्रस्याप्यधिष्ठानं समान चतुरश्रकम् ।। १२० ॥

चतुर्यशैकभागेन गर्भव्यासस्ततोऽपि च ।

द्वित्रिभागैकभागैः स्युर्गृहपिण्ड्यादयः क्रमात् ॥ १२१ ॥#

शिखरं चतुरश्रं तु सभाकारं चतुर्दिशम् ।
गर्भवेदांशविसृताः पादभद्रकनासयः ॥ १२२ ॥
चतस्रोऽल्पाश्च नास्योऽष्टौ सर्वाः सस्वस्तिभद्रकाः ।
कूटकोष्ठादिकं सर्वे पादार्धत्र्यंशभद्रवत् ॥ १२३ ॥
वेदाष्टषोडशाश्राः स्युर्वृत्ताः स्तम्भास्तलक्रमात् ।
अप्तलं खण्डहर्म्यं च प्रोक्तालङ्कारभूषितम् ॥ १२४ ॥
सौभद्रम् |

कैलासच्छन्दकस्यापि चतुरश्रं मसूरकम् । व्यासाष्टांशे त्रिभागेन गर्भागारं समन्ततः ॥ १२५ ॥ शेषः स्युर्गृहपिण्ड्याद्या वेदाश्रं गर्भमन्दिरम् । अष्टाश्रं स्याद् गलादूर्ध्वं पृथक् स्वल्पाष्टनासिकम् ॥ १२६ ॥ द्विगुणं गृहपिण्ड्यां स्योदथ कर्णाग्रसौष्ठिकम् । चतुरष्टाश्रवृत्ताभं नासीयुक्तं तले तले ॥ १२७ ॥ मध्यमण्डनमंशेन विस्तारार्धविनिष्क्रमम् । श्रीबन्धाख्यमसूरेण त्वलङ्कृत्य तदन्तरे ॥ १२८ ॥

महापञ्जरक क्षुद्रशाला गजमुखैरपि ।

नानामसूरकस्तम्भवेदिकाजालतोरणैः ॥ १२९ ॥ 'श्र' २. ' स्युरथ' ग. पाठः. ,