पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे अष्टींवशः पटलः । वृद्धसोपानमप्यन्तलींनमत्र नियोजयेत् । नानामसूरकस्तम्भवेदिकादिमरुत्पथैः ॥ १०७ ॥ अष्टाश्रसौष्ठिकं कर्णे मस्तकान्यत्र योजयेत् । अल्पानल्पक्रियोपेतं त्रितलादितला न्वितम् ॥ १०८ सर्वाङ्गालङ्कृतं ह्येतदष्टाङ्गं देवमन्दिरम् । अष्टाङ्गम् । चतुरश्रमधिष्ठानं व्यासवेदांशकायतम् ॥ १९ ॥ वसुनन्दांशके द्वित्रिभागान्नालीगृहं स्मृतम् । तदप्यायतवृत्तं स्यात् प्राग्वदर्धारिकायतम् ॥ ११० ।। गृहपिण्ड्यश्चतुर्दिक्षु पादभद्रकनासिकाः । वृचायतं तु शिखरं तस्मिन् गर्भार्धभागतः ॥ १११ ॥ समद्रका महानास्यः प्राग्वत् कूटादिकं स्मृतम् । गृहपिण्ड्यां षोडशैव कपोते तिलनासिकाः ॥ ११२ ॥ कर्णकूटादिकैः प्राग्वद् भूषयेत् पद्मक कृतौ । पद्माकृति । विष्णुच्छन्दस्य च प्राग्वदधिष्ठानं तदायतम् ॥ ११३ ।। व्यासवेदांशरामांशगर्भागारं षडश्रकम् । पद्मबन्धमधिष्ठानमूर्ध्ववेदाश्रसौष्ठिकम् ॥ ११४ ॥ गृहषिव्यादिकं प्राग्वच्छिखरं च षडश्रकम् । षडेव नास यस्तस्मिन् कण्ठश्चापि षडकः ।। ११५ ॥ स्वविस्तारार्धनिष्क्रान्तं खण्डहर्म्य च सौष्ठिकम् | ब्रह्मद्वारपताकामिर्गूढं गूढक्रियान्वितम् ॥ ११६ ॥ कपोतेऽपि च नास्यः स्युः समभद्राश्च सर्वतः । भोगभूमियुतं दारुक्रियानिर्माणशोभितम् ॥ ११७ ॥ १. 'सूकरस' क. ख. पाठः, २७५