पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नामांविमानलक्षणाधिकारः] उत्तरार्धे अधाविंशः रतिवर्धनमित्येवं चतुर्विंशतिकं स्मृतम् । चतुर्विंशतिर्विमानानि क्षत्रियाणाम् । विशालालयसंज्ञं च चतुष्पादिकमेव च ॥ ११ ॥ तुरङ्गवदनं तद्वद् गणिकापिण्डिकं तथा ।

श्येनच्छन्दं चोत्पलाग्रं ततः कुक्कुटपुच्छकम् ॥ २२ ॥
(मुण्डप्रासादकाभिख्यं विमानं तु ततः परम् ।) 

इत्यष्टौ जातिहर्म्याणि वासार्थ वैश्यशूद्रयोः । विट्शूद्भविमानान्यष्टौ । उक्तानां तु विमानानामलङ्कारो निगद्यते ॥ २३ ॥ आदौ नानकाख्यस्य चतुरश्रं समं शुभम् । अधिष्ठानं तत्रिभागाद् गर्भागारं तदर्धतः ॥ २४ ॥ अर्धारिका च हारा स्यादथ गर्भ नवांशतः । अधिकायतवृत्तं स्यात् स्तूपिभिः शिखरं त्रिभिः ।। २५ ॥

कण्ठश्च शिखराभः स्याद् वेदांशार्घारिकांशतः । 

निर्गमो मध्यबिम्बस्य स्यात् ततो गर्भसद्मनः ॥ २६ ॥

पुरो वृत्तस्फुटितकं तचतुर्भाग निर्गतम् ।

ततो द्विगुणविस्तारनिर्गमा पृथुनासिका ॥ २७ ॥

पुरस्तादथ पार्श्वाभ्यां षोडशैवाल्पनासिकाः ।
तदर्धव्यासनिर्याणा पश्चिमस्थैकनासिका ॥ २८ ॥ 

अर्घारिकाव्यासतो ऽर्घनिर्गते द्विगुणायते । सोदरे नासिके पार्श्वकोष्ठ के मूर्ध्नि चार्पयेत् ॥ २९ ॥ गृहपिण्ड्यर्धतश्चान्तर्लीनमूर्ध्वाधिरोहणम् । २६७ प्रादक्षिण्येन सोपानं भवेत् प्रतितलं क्रमात् ॥ ३० ॥

गृहपिण्डः साष्टनासा महा ( पा १ हा) रक्रियान्विता । 

अत्र पराशरः - "गृहपिण्डेरघस्तात् कूटकोष्ठपञ्जरगजवृत्तस्फुटितक्षु- द्वशालमहारातोरणस्तम्भतोरणकुम्भलतादिभिर्हर्म्य, हर्म्यात् प्रभृत्यामूलतलं य- थोचितभागेन योजयेदिति । १. 'स्य' क, ख, पाठः. २. 'मान्मध्य', ३. 'म्बास्या' ग. पाठः,