पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२६६ ईशान शिवदेवपद्धतौ श्रीच्छन्दं वृत्तभद्रं च श्रीकान्तं श्रीप्रतिष्ठितम् ।

शिवभद्रं शिवच्छन्दमष्टा पद्मकाकृति ॥ ८ ॥ 

विष्णुच्छन्दं च सौभद्रं छन्दे कैलासरुद्रयोः । ह तो ललितभद्राख्यं विमानं चेति विंशतिः ॥ ९॥

मेरुमन्दर कैलासा जयाङ्गविमलाकृती ।

कुम्भाख्यं विमलाङ्गं च वृषच्छन्दं सुदर्शनम् ॥ १० ॥ हंसच्छन्दं पद्मकान्तं गरुडच्छन्दमेव च । भोगिच्छन्दं पद्मभद्रं ततः कैलासकान्तकम् ॥ ११ ॥

रुद्रकान्तं स्कंदकान्तं योगभद्रं च मङ्गलम् । 

विन्ध्यच्छन्दं मेरुकूटं महेन्द्रं चित्रकूटकम् ॥ १२ ॥

श्रीमण्डनं च सौमुख्यं नीलं निषधसंज्ञितम् ।

ततो ललितकान्ताख्यं विजयं श्रीकरं तथा ॥ १३ ॥ श्रीविशालं च कथितं तथैव जयमङ्गलम् । [क्रियापादः जातीतराणि द्वात्रिंशद् विमानानि दिवौकसाम् ॥ १४ ॥ द्वात्रिंशद् दैविकविमानानि । नागभागाह्वयच्छन्दे कुख्यावर्ते त्रिकूटकम् ।

श्रीवर्धनं पद्मगृहं प्रेक्षागृहमुखं तथा ॥ १५ ॥
अत्यन्तभानुचन्द्राणां कान्तानि क्रतुवर्धनम् ।
वृत्तं च द्वादशैतानि विमानानि द्विजन्मनाम् ॥ १६ ॥

ब्राह्मणविमानानि द्वादश । चतुष्कुटं मन्त्रपूतमावन्त्यं माहिषं तथा । तन्त्रीकान्तं कर्णभद्रं विजयाङ्गं विशालकम् ॥ १७ ॥

'विशालभद्रं गणिकाविशालं कर्णशालकम् ।

पद्मासनं चेन्द्रकान्तं स्यात् सर्वललितं ततः ॥ १८ ॥ योगप्रत्यन्तकान्ताख्ये तत्तब्धोत्पलपत्रकम् । महाराजाह्वयच्छन्दं मालागृहमतः परम् ॥ १९ ॥ पृथिवीविजय चाथ भवेन्नन्दिविशालकम् । सर्वाङ्गसुन्दरं चापि छायागृहमतः परम् ॥ २० ॥