पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे अष्टाविशः पटलः । “ उच्चायैवमिमं च मन्त्रमसकृद् ध्यात्वा महीमण्डलं गोमूत्रेण परिप्लुते तु विधिवद् गर्भें निधायावटे । गर्भाधानमिमं प्रकल्प्य विधिवत् सन्तोष्य वित्तैर्गुरुं प्रासादं सुदृढं च लक्षणयुतं कुर्यात् ततः शिल्पिभिः ॥” इति श्रीमदीशानशिबगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे वास्तुपूजाप्रथमष्टकागर्भन्यासपटलः सप्तविंशः ।

अथ अष्टाविंशः पटलः । अथात्र लिख्यते लक्ष्म प्रासादानां समासतः । देवादीनां नराणां च येषु रम्यतया चिरम् ॥ १ ॥ मनांसि च प्रसीदन्ति प्रासादास्तेन कीर्तिताः । नानामान विधानत्वाद् विमानं शास्त्रतः कृतम् ॥ २ ॥ पितामहेन मुनिभिर्मयेन च यथा पुरा । मुख्यादीनि विमानानि कथितान्यनुपूर्वशः ॥ ३ ॥ यानि तान्यत्र कथ्यन्ते देवादीनां समासतः । तत्रेशब्रह्मविष्णूनां मुख्यानां मुख्यविंशतिः ॥ ४ ॥ जातीतराणि द्वात्रिंशत् सार्वदेवानि तान्यपि । अथ जातिविमानानां द्वादशैव द्विजन्मनाम् ॥ ५ ॥ राज्ञां सकृतिसङ्ख्यानि तथाष्टौ वैश्यशूद्रयोः । क्षुद्राल्पाख्यान्यसामर्थ्ये सर्वेषां विहितानि हि ॥ ६ ॥ तत्र मुख्यादिषण्णवतिविमानानां नामानि भवन्ति । तद्यथा नलिनं च प्रलीनं च स्वस्तिकं च चतुर्मुखम् । ततः स्यात् सर्वतोभद्रं हस्तिष्पृष्ठं समुज्ज्वलम् ॥ ७ ॥

२६५