सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६८ ईशानशिवगुरुदेवतौ समं त्रिपादमर्धं वा प्रासादस्य तु मण्डपम् ॥ ३१ ॥ पुरस्तादुक्तमानान्तं त्रिद्येकतलकं तु वा । प्रासादतुल्यालङ्कारं तत्समाङ्गं च मण्डयेत् ॥ ३२ ॥ त्रितलादि यथेच्छातः प्रासादं भूषयेत् तलैः । कर्णे मध्येऽन्तरे भित्तेर्बाह्ये वा मानसूत्रतः ॥ ३३ ॥ निर्गतैरुक्तमानेन कूटकोष्ठकपञ्जरैः । गजपृष्ठादिभिश्चोक्तैः कुर्यादवयवैर्युतम् ॥ ३४ ॥ गलादुपरि वेदाश्रं वृत्तमष्टाश्रकं तु वा । कर्णाश्रितं मध्यमैकनासिकास्तूपिकान्वितम् ॥ ३५ ॥ प्रासादावयवं प्राज्ञाः कूटं नाम प्रचक्षते । सायतं समुखपट्टिकम (विस्पष्टवि?)स्पष्ट कोटियुतमध्यमनासम् । शक्ति + ध्वजमपि त्रिमुखं तत् पार्श्वयोर्बहुशिखं खलु कोष्ठम् ॥ ३६ ॥ शिखाशब्देन स्तूपिकोच्यते । मुखे शालामुखं चैव स्तूपिकं हस्तिष्पृष्ठवत् || ३७ || पञ्जरं नाम तत् प्रोक्तमत्र प्राह पराशरः । “तदेव पाशमुखं हस्तितुण्डं कूटकोष्ठयोरन्तरे विहितं क्षुद्रकोष्ठं च । कूटकोष्ठयोरन्तरे हारा भागेन भागार्धेन वा कार्या । वृत्तस्फुटितकमपि पंजरमिव तदर्घनिर्गतवृत्तरूपं स्यात् " इति । समानकण्ठशिखरस्तूपिकं सर्वमेव हि ॥ ३८ ॥ जातिक्रमोऽयं भवति प्रासादानां समासतः । कर्णे कोष्ठं मध्यकूटमन्तरे पञ्जरादिकम् ॥ ३९ ॥ सान्तःप्रस्तरकं यत् तद् विकल्पमभिधीयते । तैरेव मिश्र आभासः सर्वतः सममेव हि ॥ ४० ॥ प्रासाद मुखशोभां तु जलावस्थित चन्द्रवत् । योजयेत् तु विमानानां भेदः संस्थानभेदतः ॥ ४१ ॥