पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तराधे सप्तविंशः पटकः । आत्मतत्त्वाय नमः ओम् आत्मतत्त्वाधिपतये ब्रह्मणे नम इत्यप्रेषु एवमिष्ट- कामूलमध्याप्राणि कुशास्त्रेण स्पृष्ट्वाथ मध्येष्टकायां सर्वतत्त्वसर्वमूर्ति मूर्तीश्वरत्रि- तत्त्वाधिपाय शिवाय नम इति विन्यस्यार्चयेत् । रक्षादर्भतिलैः परितो रक्षां विधायाथ कुण्डाग्र उपविश्य बुद्ध्यादिप्रथि - व्यादिशर्वादितत्त्वत्रयं तत्रेश्वरान् स्वनामभिस्तारादिस चतुर्थिकस्वाहान्तैराज्येनप्रत्याहुतित्रयेण सन्तर्प्य तच्छेषं पात्रे सम्पात्य इष्टकासु त्रिखण्डे तु सम्पातयेत् । अथ सान्निध्यार्थं तत्त्वसन्धानं कुर्यात् । ओम् आम् ईम् आत्मतत्त्व- विद्यातत्वाभ्यां नमः । ओम् ईम् ऊम् विद्यातत्त्वशिवतत्त्वाभ्यां नम इति सन्धायाथेष्टकासंख्यातुल्यान् नव वा पञ्च वा ताम्रमयान् निधिकुम्भांस्त्रिमधुरापूर्णान् नवपक्षे सुभद्रविभद्रसुनन्दपुष्पदन्तजयाविजयजयन्तपूर्ण संज्ञेष्वष्टसु कुम्भेषु पद्ममहापद्ममकरकच्छपमुकुन्दानन्तनीलशङ्खाख्यानष्टौ निधीनावाह्य मध्येऽनन्त- कुम्भे शक्तिनिधियुक्ते लवणारूढमूलेनाधोऽनन्तमुपरि ब्रह्माणं चार्चयेत् । एतेषु निषिषु अष्टौ लोकपाला निन्द्रादीनावाश्चाभ्यर्चयेत् । अथ पश्चपक्षे धर्मज्ञान- वैराग्यैश्वर्यसर्वसिद्धिसंज्ञकुम्भेषु नन्दाभद्राजयारिक्तापूर्णाख्यतिथिमत्सु पद्मम- हापद्ममकरशङ्खसमुद्रसंज्ञपञ्चनिर्धानावाह्य ब्रह्मादिपञ्चकारणेशान् पञ्चनिधि- ष्वावाच सम्यगभ्यर्च्य सर्वेष्वपि कुम्भेषु नवरत्नानि नववसुपञ्चरत्नानि च प- ञ्चपक्षे प्रक्षिप्य यथादिशं गर्तेष्वामुखात् प्रतिष्ठाप्यार्घ्यादिभिर्निधींश्च लोक- पालान् वा कारणेशान् वार्चयेत् । अथेष्टकाः स्थण्डिलगताः क्रमादानीयोद्दिष्टमुहूर्ते निधिकुम्भानां मुखेषु तत्तन्निधिलोकपालनामभिस्तारादिनमोन्तैः पूर्वाग्रमुत्तरानं च संस्थापयेत् । प्रादक्षिण्येन पूर्वादीशान्तं मध्ये च पञ्चपक्षे पूर्वादुत्तरान्तं मध्ये च सर्वाच निम्नान्नतविवर्जिताः सुसमाश्चिनुयात् । असमासु राष्ट्रभयं कर्तुः स्थानस्य च दुःखमावहेत् । इत्येतस्मात् सममेव संस्थाप्य शिवकुम्भाम्भसा ताः संस्नाप्य गन्धोदकेन गर्तमापूर्य प्रणवेनैकं पुष्पं प्रक्षिप्य तत् पश्येत् । प्रदक्षिणावर्त चेच्छोभनं वामावर्ते होमजपदानैः शान्ति कुर्यात् । अथ यथोद्दिष्टं शिलाभिः इष्टकाभिर्वा स्थलस्य चयनमुद्दिष्टहस्तान्तमुच्छ्रितं कृत्वा समतलं विधायाचा- मूर्तिधरशिल्पिनः सम्पूज्य निशि दर्भशय्यायां स्वप्नं दृष्ट्वाशुभस्वमे शान्ति कुर्यात् । शुभस्वप्ने पुनश्च वास्तुयागं कृत्वा गर्भन्यासं कुर्यात् । इति प्रथमेष्टकाधिकारः ।