पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ शिरः पृष्ठविभक्ताङ्गयो निर्दोषा: शुभलक्षणाः । करायतास्तद च विस्तृताष्टाङ्गुलोच्छ्रताः ॥ १४ ॥ सुपका लोहितरुचः खण्डस्फोटादिवर्जिताः । नवसंख्यास्तु वा पञ्च कार्याः स्युः प्रथमेष्टकाः ॥ ६५ ॥ उत्तमोत्तमलिङ्गस्य प्रासादे चोत्तमोत्तमे । ऐष्टकोऽयं विधिः प्रोक्त उत्तमादिष्वथोच्यते ॥ ६६ ॥ अङ्गुलैः संख्यया दीर्घाः जगतीपङ्क्त्यनुष्टुभाम् । क्रमात् तदर्घविस्तारा विस्तारार्धसमुच्छ्रयाः || १७ || उत्तमादिविमानानां निर्दिष्टाः प्रथमेष्टकाः । स्थूलमूलेष्टका स्त्री स्यादग्रस्थूला नपुंसकम् ॥ ३८ ॥ सर्वत्र समविस्तारस्थौल्या स्यात् पुरुषेष्टका । पुंसां पुमिष्टका शस्ता स्त्री स्त्रीणामिति केचन ॥ ६९ ॥ पुमिष्टकैव सर्वेषां सर्वाभिप्रायसिद्धिदा । शैले देवालये वा स्युः शैलेयाः प्रथमेष्टकाः ॥ ७० ॥ अथ मण्डपमध्ये तु स्थण्डिले शालिभिः कृते । दस्तारासने क्लृप्ते विन्यसेदिष्टकास्तु ताः ॥ ७१ ॥ तत्र सामान्यायेणेष्टकाः संप्रोक्ष्यास्त्रेण सन्ताड्य कवचेनोल्लिख्य मृद्धिः प्रक्षाल्य गोमयगोमूत्रपञ्चगव्यपश्चामृतसुवर्णरलफलगन्धाम्बुभिर्जलघूपान्तरितैः संचाप्य गन्धैर्विलिप्य प्रत्येकं हेमकौतुकसूत्राभ्यां बद्ध्वा अहतवखैराच्छाय प्रोक्तस्थण्डिले यथादिशं संस्थाप्य त्रिखण्डं तासु भावयेत् । तत्र बुद्धयादि- गन्धान्तं पुर्यष्टकं च पृथिव्यादिव्योमान्तं मूर्त्यष्टकं च शर्वादिभीमान्तं मूर्तिपा- ष्टकं च शिवविद्यात्मतत्त्वैश्च रुद्रविष्णुब्रह्मकारणेश्वरैः क्रमेण सहितं तत्तन्नामभिः प्रत्येकं प्रणवादिनमोन्तैः स्वनामभिः सचतुर्थिकैरिष्टकास्वष्टासु मूलमध्यामेष्वा- चाह्य विभाव्यार्चयेद् ओं बुद्धये नम इत्यादिगन्धान्तम् । ओं शिवतत्त्वाय नमः ओं शिवतत्त्वाधिपतये रुद्राय नमः इति प्रथमखण्डमूलेषु ओं पृथिवीमूर्तये नमः इत्यादि व्योमान्तमष्टौ ओं विद्यातत्त्वाय नमः विद्यातत्त्वाधिपतये विष्णवे नम इति मध्येषु ओं पृथिवी मूर्त्यधिपतये शर्वाय नम इति भीमान्तम् ओम् २६०