पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

प्रथमष्टकाधिकार : ] उत्तरार्धे सप्तविंशः पटलः ।

कोणेष्वत्र पदद्वयेष्वधिगताः सावित्रपूर्वाः सुरा-

स्तन्मध्ये समरीचपूर्वकसुराश्चत्वार उक्ताः क्रमात् ॥ ३५ ॥ पूर्वाधासु दिशासु वाद्यवृतिका एकैककोष्ठास्थिता

द्वात्रिंशत् पृथगीशपूर्वकसुराः पूज्याः पुरोवत् क्रमात् ।
बाह्येऽन्याः पदवर्जितास्तु चरकी चैशे विदार्यानले

कोणे रक्षसि पूतनाथ पवनस्याशागता राक्षसी ॥ ६६ ॥ शर्वस्कन्दादिचत्वारः पदव (यें ! ) बहिः स्थिताः ॥ ३७ ॥ प्राग्याम्यवरुणाशासु कौबेर्यां च क्रमाद् यजेत् ।

अनयोर्मार्गयेोरेकमाश्रित्यावाह्य वास्तुपम् || ३८ ॥ 

तदङ्गपदगाश्चापि देवताः क्रमशोऽर्चयेत् । वास्तुपूजाधिकारः । इत्थं सम्पूज्य वास्त्वीशं ब्राह्मणांस्तत्र भोजयेत् ॥ ३९ ॥

लिङ्गिनश्च यथाशक्ति शिल्पिकर्मकरानपि ।

ततः प्रासादसीमान्तं स्थलं यत् तदशेषतः ॥ ४० ॥

उद्वाहुनरमात्रं तु खात्वोद्धृत्य त्यजेन्मृदम् ।

जलान्तं शर्करान्तं वा खानयेदिति केचन ॥ ४१ ॥ अत्र प्रतिष्ठापद्धतौ ति । - "शर्करान्तं जलान्तं वा खानयेद् देवसद्मनि ।

पुरुषा गृहे वाथ यावद् भूमिर्विशुध्यति ॥

19 खातं सम्प्रोक्ष्य चास्त्रेण पूर्वमष्टाङ्गुलं मृदा । लोष्टाद्यदुष्टयापूर्य शुद्धया चाविवर्णया ॥ ४२ ॥

ततस्तु वृत्तपाषाणैर्मृज्जलान्तरितं क्रमात् ।
हस्तप्रमाणमास्तीर्य सिकताभिर्मृदा पुनः ॥ ४३ ॥
आप्लाव्य सलिलेनाथ गजैराक्रामयेत् स्थलम् ।
प्रशस्ततरुसम्भूतैर्हस्तिपादैर्दृढैः समम् ॥ ४४ ॥