पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ न लेभेऽभयदं कञ्चिहते भसितभूषणात् । ततस्तनीयसीं कृत्वा तनुं स्वां योगशक्तितः ॥ १०४ ॥ विवेश शर्मणे शम्भोः श्रवणेन शिवां तनुम् | स तस्योदरमाविश्य शङ्करस्य शिवङ्करम् ॥ १०५ ॥ [क्रियापादः दहदृशे च जगद्विश्वं विश्वस्तं च समाश्वसत् । · देवोऽषि दिव्यदर्शी तं निशम्य शरणागतम् ॥ १०६ ॥ अविस्मयः स्मयन्नाहायुगाक्षस्तु योगिनम् । मा भैर्भार्गव ! तुष्टोऽहं नयवुद्ध्यानया तव ॥ १०७ || अश्रोषितोऽसि पुत्रो मे निर्गच्छ स्वेच्छया ह्यतः । अग्र्यं ग्रहपदं दत्तं तदैश्वर्यं महत् तव ॥ १०८ ॥ नयानयौ तथा वर्षमवर्ष च जगत्रये । प्रवर्तयेथाः सततमित्युक्त्वा तं त्रिलोचनः || १०९ ॥ असृजच्छुक्ल मार्गेण शुक्रोऽभून्नामतस्ततः । अथ शुक्रः प्रणम्येशं विज्ञायेष्टं व्यजिज्ञपत् ॥ ११० ।। कृतार्थोऽनुगृहीतोऽस्मि धन्यः कोऽन्यतरो मया । यदेवं देवदेवेन प्रसादादभिनन्दितः ॥ १११ ॥ इत्युक्त्वा प्रणतं प्रीतः शुक्रं वक्रेन्दुशेखरः | वरमन्यं वृणीष्वेति सोऽब्रवीद् ब्राह्मणं विभुः ॥ ११२ ॥ सोऽपि वव्रे वरं तत्र त्रस्तं छागासुरं पुरा । पुरारेः पातयन् पद्भ्यामभयं तस्य भूतये ॥ ११३ ॥ अथाघोवदनं दैत्यं दण्डवत् पतितं क्षितौ । प्राह प्रसन्नः सन्नतेऽभयं दध्मि वरं च यत् ॥ ११४ ॥ • वान्छितं छाग ! तत् तुभ्यमित्युक्तः शम्भुनासुरः । व्यजिज्ञपद् यदज्ञानान्मयेश ! दुरनुष्ठितम् ॥ ११५ ॥ क्षन्तुमर्हसि तत् क्ष्मायां वसेयं त्वत्प्रसादतः । अविरोधेन देवानां वरमेतत् प्रयच्छ मे ॥ ११६ ॥