पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४६ ईशानशिवगुरुदेवपद्धतौ न्यायोपार्जन संशुद्धधनधान्यादिसाधनः । विशुद्धाशयमाचार्य प्रोक्तलक्षणभूषणम् ॥ ५२ ॥

सम्पूज्य हेमवसनैर्गन्धैर्माल्यैः फलैरपि । 

वरयेत् तं प्रतिष्ठार्थं स्वानुकूलदिनोदये ॥ ५३ ॥

देवागरेऽथवा रम्ये नदीतीरे निवेश्य तम् । 

साधकैर्दीक्षितैर्वापि श्रेष्ठलक्षणलक्षितैः ॥ ५४ ॥ अष्टसंख्यैर्मूर्तिधरैः शुद्धैर्विप्रैः समन्वितम् ।

पाद्यादिभिस्तु धूपान्तं मन्त्रैरेभिस्तु पूजयेत् ॥ ५५ ॥

भत्र मञ्जर्यां - इति । 'ओ ओम् ओम् ओ ओ - "तानष्टमूर्तीनथ मूर्तिपांश्च सङ्कल्प्य सम्पूज्य यथाक्रमेण । मन्त्रैरमीभिः प्रणिपातपूर्वं सन्तोषयेदंशुक भूषणाद्यैः ॥" पृथ्वी धारयते लोकान् लोकाः पृथ्वीमयाः स्मृताः ।

सर्वगं पृथिवीरूपं पृथ्वीमूर्ते । नमोऽस्तु ते ॥ ९६ ॥

अग्निर्धारयते लोकान् लोका अभिमयाः स्मृताः । सर्वगं चाभिरूपं ते अग्निमूर्ते ! नमोऽस्तु ते ॥ ५७ ॥ आत्मा यजति वै यज्ञैर्लोका यज्ञमयाः स्मृताः । सर्वगं यज्ञरूपं ते यज्ञमूर्ते ! नमोऽस्तु ते ॥ ५८ ॥ सूर्यो धारयते लोकान् लोकाः सूर्यमयाः स्मृताः । सर्वगं सूर्यरूपं ते सूर्यमूर्ते! नमोऽस्तु ते ॥ ५९ ॥ जलं धारयते लोकान् लोका जलमयाः स्मृताः ।

सर्वगं जलरूपं ते जलमूर्ते ! नमोऽस्तु ते ॥ ६० ॥

[क्रियापादः