पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कषणाधिकारः]

उत्तरार्धे षड्विंश: परल । पञ्च दोषांश्च चक्रार्धं षडशीतिमुखं तथा । ग्रहणे विषुवे तद्वत् संक्रान्तीश्चायने त्यजेत् || ४४ ॥ सर्वदोषवियुक्तं तु स्वतो न सुलभं दिनम् । लग्नं वातो बहुगुणं स्वल्पदोषं समाश्रयेत् ॥ ४५ ॥ दोषाणां शतसाहस्रं लग्नस्थः शमयेद् गुरुः । शुक्रः पञ्चसहस्राणि बुधः पञ्चशतानि च ॥ १६ ॥ तस्माच्छुभे बलवाति लग्नस्थे कर्षणादिकम् । कुर्यात् स्थानविवृद्ध्यर्थं कर्तुः कारयितुस्तथा ॥ ४७ || सम्भवे शुभयोगानां कुर्वीत स्थापनादिकम् ।


तद्यथा

मूलं द्वितीया चार्केण श्रोणा प्रतिपदिन्दुना ॥ ४८ ॥ कुजे तृतीयाहिर्बुध्न्यं कृत्तिकालु बुघेऽष्टमी । गुरावदितिपञ्चम्यौ चतुर्थ्यो भृगुफल्गुनी ॥ १९ ॥ शनिः स्वातिश्च सप्तम्यां योगाः स्युरमृताः शुभाः । हस्तसौम्याश्विमैत्राणि पुष्यं पौष्णं च रोहिणी ।। ५० ।। सूर्यादिवारसंयुक्ताः सिद्धयोगाः शुभाः स्मृताः । उक्तं चान्यैः . “ज्वलनपवनचित्रारेवतीवारुणानां फणिहर निरृतीनामेकमेकं क्रमेण । यदि रविकुजयोर्वा योगमभ्येति नन्दा स भवति परयोगः कर्मणां सिद्धिहेतुः ।।” २४५ इति । तस्माच्चोदितमासपक्षतिथि करण नक्षत्र वारादे वसयोगशुभग्रहांशकहोराद्रे- काणानरीक्षणोदयानां समस्तानां व्यस्तानां वा यथासम्भवं गुणवति काले क र्षणादीनि प्रतिष्ठान्तं कर्माणि विदध्यात् । इति देशकालाधिकारः । लिङ्गप्रतिष्ठामन्विच्छन् यजमानो गुणान्वितः ॥ ५१ ॥