पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

देशकालाधिकारः] उत्तरार्धे षट्विंशः पटः । भौमे च रोहिणी पूर्णा बुधे याम्येन सप्तमी । ज्येष्ठा प्रतिपदं शुक्रे षष्ठी च वैष्णवम् ॥ १८ ॥

शनौ पौष्णाष्टमीयोगो मृतयोगस्त्यजेदिमान् ।
प्राजापत्यं तृतीयायां सौम्यं षष्ठयां तु तिष्यभम् ॥ १९ ॥

दशम्यां द्वादशी मैत्रं पञ्चम्यां श्रवणं तथा । सप्तम्यां पौष्ण (भा!भं) याम्यमष्टम्यां चोग्रसंज्ञिताः || चित्रा विशाखा चामेयमजैकपदवैष्णवे । शतोडुमचा हिर्बुध्न्यमश्विना भरणी तथा ॥ २१ ॥

रोहिण्यार्द्रादिती शानि शून्यान्यृक्षाण्यजादिषु

• ॥ मासेष्वेतानि वर्ज्यानि क्रमाद् द्वादश भान्यपि ॥ २२ ॥ विष्कम्भशूलगण्डाश्चाप्यतिगण्डोऽथ वज्रकम् । व्याघातश्चैषु योगेषु त्रिपञ्चर्तुरसैर्मितम् ॥ २३ ॥

नवापि नव हित्वैषां घटिकाः शुभदाः पराः । 

विष्कम्भशूलयोरादौ मध्ये गण्डातिगण्डयोः ॥ २४ ॥

व्याघातवज्रायोरन्ते त्यजेद्कास्तु नाडिकाः ।
व्यतीपातं च परिधं वैधृतिं चाखिलं त्यजेत् ॥ २५ ॥
यावदर्कारयोर्मूलं मूलात् तत्संख्यतारकम् ।

दग्धं च कण्टकं स्थूणं प्रतिष्ठादिषु वर्जयेत् ॥ २६ ॥

सर्पाश्विपित्र्यपौष्णानि ज्येष्ठा मूलं परस्परम् । 

याम्याहिर्बुध्नमैत्राणि पुष्प्रपूर्वाप्यभान्यपि ॥ २७ ॥

श्रोणाप्रदेशशतभहस्तार्द्राखातयो मिथः ।

पादभं पादभाषिद्धमर्धर्क्ष चार्धभाहतम् ॥ २८ ॥ ग्रहैरेषु स्थितैरेषां वेधं ज्ञात्वा विवर्जयेत् । नाना (रा ? यो ) गे यथासंख्यं पक्षयोस्तिथियोजिते ॥ २९ ॥ मुनिसंख्याविभक्तेऽस्मिञ् ज्ञेयाः श्रीदिवसादयः । श्रीदिवसः कलिदिवसो नान्दीदिवसश्च कालकर्णी च । जयदिवसो दिवस धनार्णवश्चैव सप्तैते ॥ ३० ॥ ×ë