पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४३ तद्यथा ईशानशिवगुरुदेवपद्धतौ शस्ता गुरुज्ञकाव्यानां होराश्चोदयदृष्टयः ।

पापानामंशदिवसद्रेक्काणोदयदृष्टयः ॥ ८ ॥

होराश्वाशोभनाः सर्वे महा (स्त्वोः स्त्वा ) य गताः शुभाः । त्रिषष्ठायगताः पापाः शस्ता नेष्टास्ततोऽन्यतः ॥ ९ ॥ षट्सप्तदशगः शुक्रो नेष्टोऽन्यत्र शुभावहः । सर्वेऽप्यष्टमगा नेष्टाः शुक्रस्तत्रापि शोभनः ॥ १० ॥ द्वितीयपञ्चगश्चन्द्रो ज्ञः सप्तनवपञ्चगः । द्विसप्तपञ्चनवमे गुरुश्चैते शुभावहाः ॥ ११ ॥ सौम्यादित्याश्वितिष्याणि हस्तपौष्णे त्रिरुत्तराः । रोहिणी श्रवणं स्वाती मैत्रं चेष्टानि भानि वै ॥ १२ ॥ ग्रहमुक्तं ग्रहयुतं ग्रहेणाकाङ्क्षितं त्यजेत् । [क्रियापाद: उल्कापातं सूर्याद् दशमे नक्षत्रे भूकम्पः । सप्तमे ब्रह्मदण्डः । पञ्च- दशे मोघम् | एकविंशतिके शुक्रात् सप्तमे नक्षत्रे मृत्युः राहोरेकादशमे च । शनैश्चरयुक्तनक्षत्राद् दशमषष्ठविंशति (खा !भा) नि च खण्डनक्षत्राणि वर्ज्यानि । बुधादष्टममष्टादशकं चतुर्विशे त्रिकं च महाकण्टकाख्यानि । भौमात् पञ्च- मसप्तमनवम चतुर्दशत्रिकभानि ज्वालाभिगुरोर्नवमं रोगाख्यं च वर्ज्यम् । अपिच अश्वे चित्रे च रोहिण्यां धनिष्ठायां तथोत्तरे ॥ १३ ॥ अर्कादियोगो दग्धाख्यो ज्येष्ठायां चापि पूषभे । द्वादश्येकादशी तद्वत् पञ्चमी च द्वितीयया ॥ १४ ॥ षष्ठयष्टमी व नवमी दग्धाः सूर्यादिभिर्युताः । अनुराधा वैश्वदेवं शतभाश्वीन्दुसर्पभम् ॥ १५ ॥

हस्तं चार्कादिसंयोगान्मृत्युयोगा भवन्ति हि ।
मखा विशाखाश्चार्द्रा च मूला शतभिषक् तथा ॥ १६ ॥ 

रोहिणी चोत्तराषाढा विषयोगास्त्विनादिभिः ।

अर्केऽग्निपञ्चमीयोगः सोमे चित्राद्वितीयया ॥ १७ ॥