पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कालाधिकारः] उत्तरार्धे षड्विंशः पटकः । मध्ये प्रपां मण्डपं वा युक्त्यान्यच्चापि कारयेत् ।

ब्राह्मणक्षत्रियविशां शूद्राणां धनिनामपि ॥ ८३ ॥ .
वक्ष्यमाणास्तु ये जातिप्रासादाः सम्पदां पदम् ।

अशक्तानां तु शालाः स्युस्तत्तद्युक्त्या विनिर्मिताः ॥ ८४ ॥

इत्थं ग्रामपुरादिमानमखिलं प्रोक्तं तथा लक्षणं

ब्रह्मागस्त्यपुरन्दरैरपि यथा त्वष्ट्रा मयेनोदितम् । यद् विज्ञाय निवेशितेषु विधिना धामस्वशेषामरैः सम्पूज्यो मुनिभिस्तथैव मनुजैर्देवो मृडानीपतिः || ८५ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापदे पदविन्यासग्रामपुरलक्षणं नाम पञ्चविंशः पटलः । अथ षड्विंशः पटलः । अथ लिङ्गप्रतिष्ठायै प्रासादकरणं प्रति ।

कर्षणादिक्रियाचक्रं ज्ञेयं तल्लिख्यतेऽधुना ॥ १ ॥ 

गुणवद्देशकालातिरवेक्ष्यास्मिन् विशेषतः । सुक्षेत्रे चोदिते काले बीजमुप्तं हि रोहति ॥ २ ॥

जलसेकादिभिः कृत्यैरभीष्टफलदं च तत् ।
कर्षणादिक्रियासिद्धे प्रासादे लक्षणान्विते ॥ ३ ॥
विशिष्टदेशे काले च विधिनैव प्रतिष्ठिते ।

लिङ्गे करोति सान्निध्यं शिवः कर्तुश्च भूतये ॥ ४ ॥ अत्रोत्तरायणः कालो नियतः कर्षणादिके । मासाश्चानधिकाः पक्षः शुक्लस्तु तिथयः शुभाः ॥ ५ ॥ पर्वरिक्ताष्टमीविष्टिप्रतिपद्वर्जितास्तु याः । करणानि विना विष्टिं शकुनिं च चतुष्पदम् ॥ ६ ॥

नागकिंस्तुघ्नको हित्वा शस्तानि सुखदानि च । 

चन्द्रज्ञगुरुशुक्राणां वारद्रेक्काणकांशकाः || ७ || GG १४१