पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२३६ ईशानशिवगुरुदेवपद्धतौ त्रिभिः शतैश्चोत्तमः स्यात् खेटस्त्वेवं त्रिधा स्मृतः । अष्टौ च चत्वारिंशच्च दण्डास्तद्वच्चतुःशतम् ॥ १८ ॥

हीने तु खर्वटे ज्ञेया मध्ये पञ्चशताधिकम् ।
द्वादशैवोत्तमे षड्भिः सप्तत्या पञ्चभिः शतैः ॥ १९ ॥ 

हीनदुर्ग षट्शतैश्च चत्वारिंशद्भिरन्वितम् । चतुर्दण्डोत्तरैः सप्तशतैर्दुर्गं तु मध्यमम् ॥ २० ॥ अष्टषष्टियुतैः सप्तशतैर्दुर्गमिहोत्तमम् । सद्वात्रिंशद्वसुशतैः षण्णवत्याष्टभिः शतैः ॥ २१ ॥ षडुत्तरैर्नवशतैनच त्रिनगराणि वै । सहस्रेण च सार्धेन द्विसहस्रेण च क्रमात् ॥ २२ ॥

नीचं मध्यं तथा श्रेष्ठं नगरं मध्यमत्रये ।
त्रिचतुष्पञ्चसाहस्रैर्नगराण्युत्तमत्रये ॥ २३ ॥
षट्सप्ताष्टसहस्रैस्तु दण्डैः स्युश्चोत्तमोत्तमे ।
नगराणां ये तानि नगराणि यथाक्रमम् ॥ २४ ॥

विकारदण्डवृद्ध्या तु प्रत्येकं नवधा पुनः । ग्रामादीनां प्रमाणानि प्रोक्तादूर्ध्वं भवन्ति हि ॥ २५ ॥ राजधान्यादिकानां तु मार्ने नगरवद् भवेत् । एतावन्मानुषेष्वेव मानं ग्रामादिषु स्मृतम् ॥ २६ ॥ देवासुरपुरादीनां मानं न ज्ञायते नरैः । विस्तारात् पादमर्धं वा त्रिपादद्विगुणं तु वा ॥ २७ ॥ मुखायामो भवेदेषां ग्रामादिनगरान्तकम् । एतेषां विपुलायामात्रयुग्मैरेव दण्डकैः ॥ २८ विधातव्यावतः शेषं वाटीसञ्चार भूमिका | नद्यादेर्दक्षिण तु तीरे ग्रामान् निवेशयेत् ॥ २९ ॥ ग्रामयोरन्तरे खेटं राष्ट्रमध्ये तु खर्वटम् । [क्रियापाद: पर्वतान्तर्वने वाब्धौ दुर्गं स्याद् वा जलावृतम् ॥ ३० ॥